Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 196
________________ ५९८ अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथा विकल्पस्य भ्रान्तत्वे बहिरिव स्वरूपेऽपि भ्रान्तेरप्रत्यक्षत्वाविशेषाद् अभ्रान्तं प्रत्यक्षम् इति वचनात् [ ] कथञ्चिद् भ्रान्तत्वेनेकान्तसिद्धेरनिवारणात् । (भा०) तस्मात्स्वसंवेदनापेक्षया न किञ्चिज्ज्ञानं सर्वथा प्रमाणम् । बहिरर्थापेक्षया तु प्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् । नभसि केशादिज्ञानं हि बहिविसंवादकत्वात्प्रमाणाभासं स्वरूपे संवादकत्वात्प्रमाणम् । न चैवं विरोधः प्रसज्यते, जीवस्यैकस्यावरणविगमविशेषात् सत्येतराभाससंवेदनपरिणामसिद्धेः कालिकादिविगमविशेषात्कनकादिजात्येतरपरिणामवत् ॥८३॥ न च जीवो नास्त्येवेति शक्यं वक्तुं तद्ग्राहकप्रमाणस्य भावात् । तथा हि जीवशब्दः सबाह्यार्थः सज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसञ्ज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥ (भा०) स्वरूपव्यतिरिक्तेन शरीरेन्द्रियादिकलापेन जीवशब्दोऽर्थवान् । अतो न कृतः प्रकृतः स्यादिति विक्लवोल्लापमानं, लोकरूढः समाश्रयणात् । का पुनरियं लोकरूढि: ? (भा०) यत्रायं व्यवहारो जीवो गतस्तिष्ठतीति वा । न हि शरीरेऽयं व्यवहारो रूढस्तस्याचेतनत्वाद्भोगाधिष्ठानत्वेन रूढेः नापीन्द्रियेषु, तेषामुपभोगसाधनत्वेन प्रसिद्धः । न शब्दादिविषये, तस्य भोग्यत्वेन अष्टसहस्त्रीतात्पर्यविवरणम् विशेषादिति विगतमिति भावे क्तः आवरणविगमविशेषादित्यर्थः । सर्वत्र ज्ञाने स्वरूपे प्रामाण्यमनावृतमेव बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इत्यर्थः ॥८३॥ तेन शरीरेन्द्रियादिकलापेन, कृतः=उत्पादितः, प्रकृतो जीवशब्दार्थः स्यात् ।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294