Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 264
________________ ६६६ अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) न वै प्रदीपः कृपालुतयात्मानं परं वा तमसो दुःखहेतोः (भा०) निवर्तयतीति । किं तर्हि ? तथास्वभावात् । (भा०) कल्पयित्वापि कृपालुतां तत्करणस्वभावसामर्थ्य मृग्यम् । एवं हि परम्परापरिश्रमं परिहरेत् । ततो निःशेषान्तरायक्षयादभयदानं स्वरूपमेवात्मनः प्रक्षीणावरणस्य परमा दया । सैव च मोहाभावाद्रागद्वेषयोरप्रणिधानादुपेक्षा । तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवर्तनात् परदुःखनिराकरणसिद्धिः इति न बुद्धवत्करुणयास्य प्रवृत्तिभगवतो, येनोपेक्षा केवलस्य फलं न स्यात् । [अज्ञाननिवृत्तिर्ज्ञानस्य फलमिति स्पष्टयन्ति जैनाचार्याः ।] अव्यवहितं तु फलमाद्यस्याज्ञाननिवृत्तिरेव, स्वविषये मत्यादिवत् । तथा हि ( भा० ) मत्यादेः साक्षात् फलं स्वार्थव्यामोहविच्छेदस्तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् क्षणपरिणामोपलम्भवदविसंवादकत्वासम्भवात् । तदनेन प्रमाणाद्भिन्नमेव फलमिति व्युदस्तम् । तथा (भा०) परम्परया हानोपादानसंवित्तिः । - अष्टसहस्रीतात्पर्यविवरणम् मोहविलासरूपत्वान्निष्पन्नयोगस्य च मैत्र्यादिवर्जितसद्बोधमात्रचित्तश्रुतेरिति भावः । सैव चेति उपेक्षा वा परमा दया वाऽभयदानं वा सिद्धयोगो वेत्यनर्थान्तरं, तत्परिपाकश्चाशैलेश्यन्त्यक्षणं केवलज्ञानादित्युपेक्षायास्तत्फलत्वं, व्यवहितत्वं च तस्याः शैलेश्यन्त्यक्षणे परिपाकादिति बोध्यम् । अव्यवहितं त्विति ज्ञानाज्ञानाध्वंसयोः सहभावेऽप्यभेदे हेतुफलभावः प्रदीपप्रकाशयोरिवेति द्रष्टव्यम् । भिन्नफलापेक्षया तु न किञ्चिदपि केवलादित्येन निष्फलत्वमेवोच्यते, प्रमाऽयोगव्यवच्छेदाभिप्रायेण च परेषामीश्वरज्ञान इव न प्रमाणलक्षणायोग इति युक्तं पश्यामः । मत्यादेभिन्नाभिन्नं फलमुपदर्शयितुमाह भाष्यकृत्मत्यादेरित्यादिना । परम्परया हानोपादानसंवित्तिरिति व्यवधानेन जिहासाजनिकोपादि

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294