Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 263
________________ द्वितीयो भाग: [ परि० १० - का० १०२] [बौद्धो भगवति करुणाबुद्धि मन्यते किन्तु जैनाचार्याः करुणाया मोहस्य पर्यायं कथयित्वा निषेधयन्ति तथा केवलिनि उपेक्षाफलं कथमिति स्पष्टयन्ति ] ६६५ ननु ( भा० ) करुणावतः परदुःखजिहासोः कथमुपेक्षा ? तदभावे कथं चाप्तिः ? इति चेत्, न, तेषां मोहविशेषात्मिकायाः करुणायाः सम्भवाभावात् । (भा०) स्वदुःखनिवर्तनवदकरुणयापि वृत्तेरन्यदुःखनिराचिकीर्षायाम् । नन्वस्मदादिवद् (भा० ) दयालोरेवात्मदुःखनिवर्तनं युक्तम् । तथा हि-यो यः स्वात्मनि दुःखं निवर्तयति स स स्वात्मनि करुणावान्, यथास्मदादिः । तथा च योगी स्वात्मनि संसारदुःखं निवर्तयतीति युक्तिः । न चात्र हेतुर्विरुद्धोऽनैकान्तिको वा, विपक्षे सर्वथाप्यभावात् बाधकप्रमाणसामर्थ्यात्, स्वसाध्याविनाभावसिद्धेः । तथा हि-यः स्वात्मन्यकरुणावान्न स स्वदुःखं निवर्तयति, यथा द्वेषादेर्विषभक्षक इति साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चयात् । भयलोभादिनात्मदुःखनिवर्तकैर्व्यभिचारी हेतुरिति चेत्, न तेषामपि करुणोत्पत्तेः । न ह्यात्मन्यकरुणावतः परतो भयं लोभो मानो वा सम्भवति, तस्यात्मकरुणाप्रयुक्तत्वात् । भयादिहेतुका वा कस्यचिदात्मनि करुणोत्पद्यते । सोत्पन्ना सती स्वदुःखं निवर्तयति इति परंपरया करुणावानेवात्मदुःखमनशनादिनिमित्तं निवर्तयति इति साक्षात्करुणयात्मदुःखनिवर्तने प्रवर्तते ततो न व्यभिचारः । एतेनादृष्टविशेषवशादात्मनि दुःखनिवर्तनपरैर्व्यभिचारचोदना निरस्ता, ततः करुणोत्पत्तेरेव तन्निवर्तनात् । तन्नाकरुणस्यात्मदुःखनिवर्तनं दृष्टम् । ( भा० ) अतोऽयमसमाधिरिति चेत्, न, स्वभावतो स्वपरदुःखनिवर्तननिबन्धनत्वोपपत्तेः प्रदीपवत् । अष्टसहस्त्रीतात्पर्यविवरणम् मोहविशेषात्मिकाया इति, मोहासुखसंवेगान्यहितयुतत्वेन चतुर्विधाया अपि करुणाया

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294