Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 266
________________ ६६८ अष्टसहस्त्रीतात्पर्यविवरणम् व्यामोहविच्छेदाभावे (भा०) विसंवादानिराकरणे तदज्ञस्येव विषयदृष्टिः प्रमाणत्वं न प्रतिपत्तुमर्हति । तावतैव प्रमाणत्वे क्षणिकत्वाद्यनुमानमधिगतार्थाधिगमलक्षणत्वान्न वै प्रमाणम् । इति निरूपितप्रायम् ॥१०२॥ ननु च स्याद्वादनयसंस्कृतं तत्त्वज्ञानमित्युक्तं तद्वत् फलमपीति स एव तावत् स्याच्छब्दोऽभिधीयतामित्याहुः वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ [ अपरैः कल्पितं दशधा वाक्यस्य लक्षणं निराकृत्य निर्दोषवाक्यलक्षणं ब्रुवन्ति जैनाचार्याः ।] किं पुनर्वाक्यं नामेत्युच्यतां तत्र विप्रतिपत्तेः । तदुक्तम् आख्यातशब्दः सङ्घातो, जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृती ॥ पदमाद्यं पदं चान्त्यं पदं सापेक्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवेदिनाम् ॥ इति [ वाक्यपदीय ] अत्रोच्यते (भा०) पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यं । अष्टसहस्त्रीतात्पर्यविवरणम् अधिगतिः फलं फलभाग इति योजना, प्रमाणफलव्यवस्थायामपीति ग्राह्यसंविदाकारयोः प्रमाणफलव्यवस्था पूर्वं न हि सारूप्यमित्यादिना निराकृतैव, इदानीं तामङ्गीकृत्यापि दूषणान्तरं समुच्चीयत इत्यपिः सूचयति । तदज्ञस्येव = नीलाद्यविषयज्ञानस्येव, विषयदृष्टिः = विषयघटितप्रामाण्यदर्शी लौकिकपरीक्षकः ॥१०२॥ ॥ वाक्यवादः ॥ पदानामिति, अत्र निरपेक्ष इति विशेषणं चैत्र: स्थाल्यां पचतीत्यादौ कर्मादि

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294