Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 262
________________ ६६४ अष्टसहस्त्रीतात्पर्यविवरणम् तस्य नयोपलक्षितत्वात् । (भा० ) केवलज्ञानवत् स्याद्वादोपलक्षितत्वाच्च । कुत एतदिति चेद् विकलसकलविषयत्वात् तयोः । तत्त्वज्ञानं वा स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं क्रमाक्रमभावित्वे कथम् ? तत्त्वज्ञानं स्यादक्रम, सकलविषयत्वात् । स्यात् क्रमभावि, विकलविषयत्वात् । स्यादुभयं, तदुभयविषयत्वात् । स्यादवक्तव्यं, युगपद्वक्तुमशक्तेः इत्यादि, सप्तभङ्ग्याः प्रमाणनयवशादुपपत्तेः । अथवा प्रतिपर्यायं स्याद्वादनयसंस्कृतं प्रतिपत्तव्यं, स्यात्प्रमाणं स्वार्थप्रमिति प्रति साधकतमत्वात्, स्यादप्रमाणं प्रमाणान्तरेण प्रमेयत्वात् स्वतो वा । अथवा स्यात्सत्, स्वरूपादिचतुष्टयात्, स्यादसत् पररूपादिचतुष्टयात् इत्यादि योजनीयम् ॥१०१॥ अथ प्रमाणफलविप्रतिपत्तिनिवृत्त्यर्थमाहुः-- उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥१०२॥ कारिकापाठापेक्षया युगपत्सर्वभासनं केवलमाद्यं, तस्य व्यवहितं फलमुपेक्षा । कुतः ? इति चेद् उच्यते । (भा०) सिद्धप्रयोजनत्वात्केवलिनां सर्वत्रोपेक्षा । हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपात्तत्वात् सिद्धप्रयोजनत्वं नासिद्धं भगवताम् । अष्टसहस्त्रीतात्पर्यविवरणम् शयाधानोपपत्तेरिति युक्तमाभाति । तत्त्वज्ञानं वेति तथा च धर्मितावच्छेदकसामानाधिकरण्येनात्र क्रमाक्रमविषयस्याद्वादनयप्रवृत्तिर्युक्तैवेति भावः । स्यादक्रममिति केवलज्ञानापेक्षया, स्यात् क्रमभावीति मत्यादिज्ञानापेक्षया ॥१०१।। सर्वत्रोपेक्षा स्वविषयमात्रे जिहासोपादित्सारहितः सिद्धयोगपरिमाण इति यावत् ।

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294