Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 260
________________ ६६२ अष्टसहस्त्रीतात्पर्यविवरणम् मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं । तत्प्रमाणे इति सूत्रकारवचनात् [तत्त्वा० १.९१०] । ननु च मत्यादिज्ञानचतुष्टयमपि युगपदिष्यते, तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः इति सूत्रसद्भावादिति [तत्त्वा० १.३०] न शङ्कनीयं, मत्यादिज्ञानानामनुपयुक्तानामेव यौगपद्यवचनात् सह द्वौ न स्तः उपयोगौ इत्यार्षवचनात् [ ] । छद्मस्थज्ञानदर्शनोपयोगापेक्षया तद्वचनमिति चेत्, नैवं विशेषानभिधानात् । सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्ते इति न्यायात् तद्विशेषगतिरिति चेत्, न, अन्यथापि विशेषगतिसम्भवात्, तन्नैवेति, प्रमाणाभावात् । 'क्वचिदात्मनि मत्यादिज्ञानानि सोपयोगानि युगपत्सम्भवन्ति सकृत्सन्निहितस्वविषयत्वात् दीर्घशष्कुलीभक्षणादौ चक्षुरादिज्ञानपञ्चकवदित्यनुमानादिष्टविशेषगतिरस्तु । न चेदमुदाहरणं साध्यविकलं चक्षुरादिज्ञानानां क्रमवृत्तौ परस्परव्यवधानाद्विच्छेदोपलक्षणप्रसङ्गात्, प्रसिद्धक्रमभाविरूपादिज्ञानवदिति' न मन्तव्यं । (भा०) चक्षुरादिज्ञानपञ्चकस्याऽपि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं, क्षणक्षयवत् ताथागतस्य स्यात् । तेषां (भा०) यौगपद्ये हि सन्तानभेदात् परस्परपरामर्शाभावः सन्तानान्तरवत् । अष्टसहस्त्रीतात्पर्यविवरणम् तस्मात् केवलज्ञानस्य एव एकोपयोगः केवलिन इति निष्कृष्टं सिद्धसेनाचार्याणामेव मतं, मल्लवादिप्रभुतीनां वा, एतच्च त्रयमपि ऋजुसूत्र-व्यवहार-सङ्ग्रहनयभेदादविरोधेन व्यवस्थापितमस्माभिर्ज्ञानबिन्दौर महता प्रबन्धेनेति व्युत्पत्त्यर्थिनाऽत्रार्थे स एव ग्रन्थोऽनुसन्धेयः । ये तु बालिशा नयभेदेन प्रवृत्तेऽप्याचार्यमतभेदे शङ्काव्याकुलितचेतसः शासनमेव निन्दन्ति, तेऽभव्या दूरभव्या वा, अचारित्रिण एव चारित्रप्रतिपत्तिश्चारित्रिण एव वेत्यादिनयभेदेनाप्येवं जातशासनसंशयसन्निपातस्य भगवद्भिषग्वरेणाप्यप्रतीकार्यत्वापत्तेरिति दिग् । तद्विशेषगतिः= उपयोगपदस्य छद्मस्थज्ञानदर्शनोपयोगपरता, अन्यथाऽपि छद्मस्थोपयोगमात्रविषयत्वेनापि, क्वचिदित्यादिर्न मन्तव्यमित्यन्तं पूर्वपक्षग्रन्थः । चक्षुरादीत्यादि भाष्यमुत्तरग्रन्थः । सन्तानभेदाद्रूपज्ञानस्य ज्ञानसन्तानादिभेदात्, परस्परपरामर्शाभावः, य एवाहमद्राक्षं स एव स्पृशामीत्यादिप्रत्यभिज्ञाभावः, स्यादिति शेषः ।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294