Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 258
________________ अष्टसहस्त्रीतात्पर्यविवरणम् ततः सूक्तमिदमवधारणं प्रमाणमेव तत्त्वज्ञानमिति, प्रत्यक्षपरोक्षतत्त्वज्ञानव्यक्तीनां साकल्येन प्रमाणत्वोपपत्तेः । ६६० [ज्ञानानां विशेषलक्षणं विषयं च स्पष्टयन्त्याचार्याः ] ( भा० ) तत्र सकलज्ञानावरणपरिक्षयविजृम्भितं केवलज्ञानं युगपत्सर्वार्थविषयम् । करणक्रमव्यवधानातिवर्तित्वात् युगपत्सर्वभासनम् । तत्त्वज्ञानत्वात्प्रमाणम् । ( भा० ) तथोक्तं, 'सर्वद्रव्यपर्यायेषु केवलस्य' इति सूत्रकारैः [तत्त्वा० १.२९] केवलज्ञानदर्शनयोः क्रमवृत्तित्त्वात् चक्षुरादिज्ञानदर्शनवद्युगपत्सर्वभासनमयुक्तमिति चेत्, न तयोर्यौगपद्यात्, तदावरणक्षयस्य युगपद्भावात्, मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् इति [१०.१] अत्र प्रथमं मोहक्षयस्ततो ज्ञानावरणादित्रयक्षयः सकृदिति व्याख्यानात् । ( भा०) तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्याद् । दर्शनकाले ज्ञानाभावात्तत्काले च दर्शनाभावात् । सततं च भगवतः केवलिनः सर्वज्ञत्वं सर्वदर्शित्वं च साद्यपर्यवसिते केवलज्ञानदर्शने इति वचनात् [ ]। अष्टसहस्त्रीतात्पर्यविवरणम् इन्द्रियनोइन्द्रियस्वसंवेदनभेदात् । श्रितमविप्लवमिति अभ्रान्तत्वं श्रितमित्यर्थः । ॥ केवलज्ञानदर्शनोपयोगद्वयवादः ॥ सततं चेति, अत्र वदन्ति श्रीजिनभद्रगणिक्षमा श्रमणानुयायिनः क्रमिकज्ञानदर्शनोपयोगद्वयाभ्युपगमेऽपि केवलिनः सर्वज्ञत्वसर्वदर्शित्वयोः सातत्यस्य साद्यपर्यवसितत्वस्य च लब्ध्यपेक्षया न विरोधो, मतिज्ञानश्रुतज्ञानयोरपि षट्षष्टिसागरोपमस्थितिकत्वस्येत्थमेवोपपादनात्, उपयोगस्थितेरुत्कर्षतोऽप्यन्तर्मुहूर्त्तपरिमाणत्वादेव सामग्रीद्वयसमाजेऽप्येकदा केवलज्ञानदर्शनद्वयानुत्पादे मतिश्रुतयोरेव दृष्टान्तत्वात्, सह द्वौ न स्त उपयोग इत्या - वचनादेव च केवलज्ञानोपयोगकाले केवलदर्शनोपयोगात्, तस्य छद्मस्थोपयोगविषयत्वेन सङ्कोचकरणे बीजाभावात्, स्वभावहेतोरुभयत्राविशेषादादौ केवलज्ञानोपयोगोत्पादे च सर्वा लब्धयः साकारोपयोगोपयुक्तस्यैव भवन्ति इति [ ] वचनस्यैव विनिगमकत्वात्, तदनन्तरं केवलदर्शनोपयोगोत्पादस्य चार्थसिद्धत्वात्, तदनन्तरं क्रमिकोपयोगद्वयधारायाश्च स्वरसत एव -

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294