Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 257
________________ द्वितीयो भागः [परि १०-का० १०१] ६५९ सम्बन्धप्रतिपत्तौ प्रत्यक्षानुपलम्भयोरेव भूयः प्रवर्तमानयोः प्रमाणत्वादित्येके, तेऽप्यसमीक्षितवाचः, कथञ्चिदपूर्वार्थविषयत्वादूहाख्यविकल्पस्य प्रमाणत्वोपपत्तेः प्रत्यक्षानुपलम्भयोः सन्निहितविषयबलोत्पत्तेरविचारकत्वाच्च व्याप्तौ प्रवृत्त्यसम्भवात् । यदि पुनरप्रमाणमेव व्याप्तिज्ञानं सम्बन्धं वा व्यवस्थापयेत्तदा प्रत्यक्षमनुमानं चाप्रमाणमेव स्वविषयं व्यवस्थापयेत् किं तत्प्रमाणत्वसाधनायासेन ? लिङ्गलिङ्गिसम्बन्धप्रतिपत्तिरर्थापत्तेरित्यन्ये । तेषामपि सम्बन्धज्ञानपूर्वकत्वेऽर्थापत्तेरापत्त्यन्तरानुसरणादनवस्था । तदपूर्वकत्वे स्वयमनिश्चितानन्यथाभवनस्यार्थापत्त्युदयत्वप्रसङ्गः, परस्पराश्रयणं च, सत्यनुमानज्ञाने तदन्यथानुपपत्त्या सम्बन्धज्ञानं. सति च सम्बन्धज्ञानेऽनुमानज्ञानमिति नैकस्याप्युदयः स्यात् । न चान्यत्सम्बन्धार्थापत्त्युत्थापकमस्त्यनुमानज्ञानाद् येन परस्पराश्रयणं न स्यात् । एतेनोपमानादेः सम्बन्धप्रतिपत्तिः प्रत्युक्ता । तस्माद् (भा०) उपमानादिकं प्रमाणान्तरमिच्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबन्धाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति । इति प्रत्यक्षं परोक्षमित्येतद् द्वितयं प्रमाणम् अभ्युपगन्तव्यम् । (भा० ) अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि, परोक्षेऽन्तर्भावात् । तदुक्तं प्रत्यक्षं विशदं ज्ञानं त्रिधाश्रितमविप्लवम् । परोक्षं प्रत्यभिज्ञादि प्रमाणे इति सङ्ग्रहः ॥ [ ] अष्टसहस्त्रीतात्पर्यविवरणम् तस्य सर्वोपसंहारेण व्याप्तिज्ञानादिरूपोहस्य, प्रत्यक्षानुपलम्भजन्यत्वाद् विशेषान्वयव्यतिरेकग्रहसामान्यव्यभिचारनिर्णयजन्यत्वात्, अविचारकत्वाच्चेति उहोपयोगे तु लाघवादिविचारस्यापि प्रवेशान्न दोष इति भावः । अनुमानव्यतिरेके ऽपीति, अपिरस्वरसद्योतकः, तेन तत्त्वतोऽर्थापत्त्यादेरनुमानादावेवान्तर्भाव इत्युक्तं भवति । विधेति १. जन्मत्वादिति अष्टसहस्रीसम्मतः पाठः ।

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294