Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 252
________________ अष्टसहस्त्रीतात्पर्यविवरणम् ( भा० ) नापि लैङ्गिकं लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेरन्यथा दृष्टान्तेतरयोरेकत्वात् किं केन कृतं स्यात् ? तदेतेन प्रतिपन्नव्यभिचारस्य । ६५४ य इत्थं प्रतिभासः स्यात् स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा सति ॥ इति [ ] प्रज्ञाकरमतमप्यपास्तं, स्वयमसिद्धेन दृष्टान्तेन साध्यसिद्धेरकरणात् । कदाचित्संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वमयुक्तं । ( भा० ) कादाचित्कार्थप्राप्तेरारेकादेरपि सम्भवात्, प्रत्यक्षत्वप्रसक्तेः । सर्वदा संवादात्तस्य प्रत्यक्षत्वमुदाहरणत्वं चेत्यप्यसारं, तदसिद्धेः । ( भा० ) न हि मिथ्याज्ञानस्य संवादनैकान्तः सम्भवति, विरोधात् । नन्वनुमानस्य संभवत्येवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तदुक्तं अष्टसहस्त्रीतात्पर्यविवरणम् आनुमानिकं तद्भविष्यतीत्याशङ्कायामाह - नापि लैङ्गिकमित्यादि । किं केन कृतं स्यादिति न केनचित् किञ्चिदित्यर्थः । प्रतिपन्नव्यभिचारस्येति मण्युत्पत्तिप्रदेश इत्यर्थः । य इत्थमिति अत्र प्रयोगश्चायं - ममायं प्रतिभासो मणिसंस्थानवान् एवंप्रतिभासत्वात् संप्रतिपन्नप्रतिभासवदिति । स्वयमसिद्धेनेति अन्यत्रापि मणिप्रभाप्रतिभासे मणिसंस्थानविषयत्वस्यासिद्धेः पर्वतो वह्निरित्यस्येव मणिप्रभायामयं मणिरित्यस्य लैङ्गिकज्ञानस्यापि भ्रमरूपतायाः सर्वसिद्धत्वाच्च । एतेन कुञ्चिकापवपरकसाधारणस्थूलदेशपक्षकमण्यनुमानम् अपास्तम्, अभेदानुमितेरेव विचार्यत्वात् । प्रत्यक्षत्वप्रसक्तेः प्रत्यक्षप्रमाणत्वप्रसक्तेः । सम्भवत्येवेत्यत्र संवादनैकान्त इति योगः । अनन्तर लिङ्गज्ञानवत् धूमदर्शनानन्तरधूमज्ञानवत्, पारम्पर्येणेति अग्निस्वलक्षणाद्धूमस्वलक्षणं ततो धूमनिर्विकल्पं ततो धूमविकल्प उत्पद्यत इत्येवमुत्पत्तिपारम्पर्यं बोध्यम् । अर्थप्रापकत्वं च लिङ्गज्ञानस्य १. संवादनं इति अष्टसहस्रीसम्मतः पाठः ।

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294