Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 251
________________ द्वितीयो भागः [ परि० १०-का० १०१] ६५३ (भा०) क्वचिद्धर्माधर्मसंवेदनवत् परोक्षत्वोपपत्तेः तत्त्रिरूपलिङ्गबलभाविनामपि (भा०) विकल्पानामतत्त्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? । मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ [प्र. वा. २.५७] यथा तथाऽयथार्थत्वेऽप्यनुमानावभासयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ इति [प्र. वा. २.५८] (भा०) मणिप्रदीपप्रभादृष्टान्तोऽपि स्वपक्षघाती, मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणान्तर्भावविघटनात् । कथं प्रमाणे एवेत्यवधारणं घटते ? । (भा०) न हि तत्प्रत्यक्षं स्वविषये विसंवादनात् शुक्तिकादर्शनवद्रजतभ्रान्तौ । तत्राप्रतिपन्नव्यभिचारस्य यदेव मया दृष्टं तदेव मया प्राप्तमित्येकत्वाध्यवसायाद्विसंवादनाभावान्मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिराशुभ्रमणिनौयानसंक्षोभाद्याहितविभ्रमस्यापि धावद्दवादितरुदर्शनस्य प्रत्यक्षत्वप्रसङ्गादभ्रान्तमिति विशेषणमध्यक्षस्य न स्यात् । धावतां दर्शनादवस्थितानामगानां प्राप्तेविसंवादात् भ्रान्तत्वसिद्धेस्तस्याप्रत्यक्षत्वे कुञ्चिकाविवरे मणिप्रभायां मणेर्दर्शनादपवरकाभ्यन्तरेऽपरिप्राप्तेः कथमिव तस्याभ्रान्तता युज्येत ? इति न प्रत्यक्षं तत्स्यात् । - अष्टसहस्त्रीतात्पर्यविवरणम् दर्शने च, परोक्षत्वोपपत्तेरिति विकल्पलिङ्गानुमेयत्वादित्यर्थः । अतत्त्वविषयत्वात्= तुच्छसामान्यगोचरत्वात्, मणिप्रदीपप्रभयोरिति मणिप्रभायां प्रदीपप्रभायां चेत्यर्थः । मणिप्रभादर्शनस्य प्रामाण्यप्राप्तावपि प्रत्यक्षेऽनुमाने चान्तर्भावसम्भवान्न प्रमाणद्वयविभागव्याघातो भविष्यतीत्याशङ्कायामाह भाष्ये-न हि तत्प्रत्यक्षमित्यादि । स्वविषय इति दीपप्रभांश इत्यर्थः । यदंशे संवादस्तदंशे प्रामाण्यमबाधमिति मत्वाऽऽह वृत्तिकृत्-तत्रेत्यादि । यत्प्रकारेण विसंवादस्तत्प्रकारेण भ्रमत्वे त्वभ्युपगम्यमाने प्रकृतेऽपि तत्तुल्यमित्याहधावतामित्यादि । कुञ्चिकाविवरे द्वारप्रवेशविवरे, माभून्मणिप्रभायां मणिज्ञानं प्रत्यक्षम्,

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294