Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 249
________________ द्वितीयो भागः [परि. १०-का० १०१] ६५१ सुनिश्चितासम्भवबाधकत्वात्, सम्भवबाधकस्य, संशयितासम्भवबाधकस्य, कदाचित्क्वचित्कस्यचिन्निश्चितासम्भवबाधकस्य च प्रमाणत्वायोगात्, प्रवृत्तिसामर्थ्यस्यार्थवत्क्रियाप्राप्तेरदुष्टकारणजन्यत्वस्य लोकसंमतत्वस्य च प्रमाणलक्षणस्य तत्त्वार्थश्लोकवातिके प्रपञ्चतोऽपास्तत्वात् । [यदि तत्त्वज्ञानं सर्वथा प्रमाणं भवेत्तर्हि अनेकान्ते विरोधो भविष्यतीति कथने सति जैनाचार्याः समादधते ।] ननु च तत्त्वज्ञानस्य सर्वथा प्रमाणत्वसिद्धेरनेकान्तविरोध इति न मन्तव्यं, (भा० ) बुद्धेरनेकान्तात्, येनाकारेण तत्त्वपरिच्छेदस्तदपेक्षया प्रामाण्यमिति निरूपणात् । (भा०) तेन प्रत्यक्षतदाभासयोरपि प्रायशः सङ्कीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । कथमेवं क्वचित्प्रमाणव्यपदेश एव क्वचिदप्रमाणव्यपदेश एवेति नियता लोकव्यवस्थितिरिति ? उच्यते । (भा० ) तत्प्रकर्षापेक्षया व्यवपदेशव्यवस्था गन्धद्रव्यादिवत् । यथा च प्रत्यक्षस्य संवादप्रकर्षात्प्रमाणव्यपदेशव्यवस्था प्रत्यक्षाभासस्य च विसंवादप्रकर्षादप्रमाणत्वव्यपदेशव्यवस्थितिः गन्धादिगुणप्रकर्षात्कस्तूरिकादेर्गन्धद्रव्यादिव्यपदेशव्यवस्था तद्व्यवहारिभिरभिधीयते । अष्टसहस्त्रीतात्पर्यविवरणम् व्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारः । भाष्ये बुद्धेरनेकान्तादिति बुद्धेः प्रामाण्यं प्रत्यनेकान्तादित्यर्थः । तदेव स्पष्टयति-येनाकारेणेति । प्रसिद्धेत्यादि तथा च प्रमाणेऽपि क्वचिद् भूतभासमानपर्यायावच्छेदेनाप्रमाजनकत्वरूपाप्रामाण्यस्याप्रमाणेऽपीदन्ताद्यवच्छेदेन धारावाहिफलमपेक्ष्य प्रामाण्यस्योभयत्र च स्वसंवेदनांशे समुच्चये अंशावलम्बित्वांशे च

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294