Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 219
________________ द्वितीयो भागः [ परि. ९-का० ९५] ६२१ तेषामार्तरौद्रध्यानपरिणामकारणत्वेन सङ्क्लेशाङ्गत्ववचनात्, तत्कार्यहिंसादिक्रियावत् । कायवाङ्मनःकर्म योगः । स आस्रवः । शुभः पुण्यस्य अशुभः पापस्य इत्यपि [तत्त्वा० ६.१-३] न विरुद्धं, कायादियोगस्यापि तत्कारणकार्यत्वेन सङ्क्लेशत्वव्यवस्थितेः । एतेन तदभावे विशुद्धिः सम्यग्दर्शनादिहेतुः धर्म्यशुक्लध्यानस्वभावा तत्कार्यविशुद्धिपरिणामात्मिका च व्याख्याता, तस्यामेवात्मन्यवस्थानसम्भवात् । तदेवं विवादाध्यासिताः कायादिक्रियाः स्वपरसुखदुःखहेतवः सङ्क्लेशकारणकार्यस्वभावाः प्राणिनामशुभफलपुद्गलसम्बन्धहेतवः सङ्क्लेशाङ्गत्वाद्विषभक्षणादिकायादिक्रियावत् । तथा विवादापन्नाः कायादिक्रियाः स्वपरसुखदुःखहेतवो विशुद्धिकारणक्रियास्वरूपाः प्राणिनां शुभफलपुद्गलसम्बन्धहेतवो, विशुद्ध्यङ्गत्वात् पथ्याहारादिकायादिक्रियावत् । ये शुभाशुभफलपुद्गलास्ते पुण्यं पापं च कर्मानेकविधम् । इति सक्षेपात्सकलशुभाशुभकर्मास्रवबन्धकारणं सूचितं भवति, विस्तरतस्तस्यास्रवबन्धाध्याये सुनिरूपितत्वात् । ततः स्यात् स्वपरस्थं सुखदुःखं पुण्यास्रवहेतुविशुद्ध्यङ्गत्वात् । स्यात् पापास्रवहेतुः, सङ्क्लेशाङ्गत्वात् । स्यादुभयं, क्रमापिततद्वयात् । स्यादवक्तव्यं, सहापिततद्वयात् । स्यात् पुण्यहेतुरवक्तव्यं च, स्यात्पापहेतुरवक्तव्यं च, स्यादुभयं चावक्तव्यं च, स्वहेतुविषयात् । इति सप्तभङ्गीप्रक्रिया पूर्ववद्योजनीया ॥९५।। अष्टसहस्रीतात्पर्यविवरणम् कायेत्यादि । सङ्क्लेशाङ्गव्याख्यानस्य या दिक् सैव विशुद्ध्यङ्गव्याख्यानस्येत्यतिदिशतिएतेनेत्यादि । एवं व्यवस्थिते बाह्यक्रियाणां कर्मपुद्गलसम्बन्धहेतुत्वं साधयितुमनुमानप्रयोगमाह-तदेवं विवादाध्यासिता इत्यादिना । स्यादवक्तव्यं सहार्पितद्वयादिति प्रशस्ताप्रशस्तभेदेनाध्यवसायस्थानानां द्विविधानामेव व्यवस्थितत्वात्तत्तृतीयराश्यभावेनैकदाविशुद्धिसङ्क्लेशाङ्गोभयरूपस्य कस्यापि व्यापारस्य वक्तु मशक्यत्वादित्यर्थः । यत्तु अविधिना दानादिव्यापारस्य शुभाशुभयोगत्वमुच्यते, तद् व्यवहारत एव, न तु निश्चयतः, तत्राविधिदानपरिणामयोर्यदंशे उत्कटत्वं तदंशस्यैव फलवत्त्वं, नान्यस्य, अन्यथा ततो मिश्रकर्मबन्धप्रसङ्गात्, न च मिश्रं कर्म किञ्चिदस्ति बन्धतः, केवलं सङ्क्रमत एव मिश्रमोहनीयमेकमस्तीत्याद्यर्थस्य महाभाष्ये व्यवस्थितत्वात् । यदपि कुशलाकुशलं कर्म तत्त्वार्थभाष्ये परिगणितं तदपि न बन्धतः, किन्त्वनुबन्धत इति विस्तरेण व्यवस्थापितं तर्कभाष्यानुसारिण्यां तत्त्वार्थटीकायामस्माभिरिति तत एव तदवधार्यं सुधीभिः ॥९५।। १. तृतीयचतुर्थादिश्लोकानां टीका नोपलभ्यतेऽधुना ।

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294