Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 237
________________ द्वितीयो भाग: [ परि० १० का ० ९९ ] मात्मान्तरं, मृत्पिण्डकुलालवदिति चेत्, न । एवमपि प्रकृतसाधनव्यतिरेकानिश्चयात् । तथा हि-तनुकरणभुवनादिकं विवादापन्नं बुद्धिमत्कारणपूर्वकं, विरम्यप्रवृत्तेः सन्निवेशविशिष्टत्वादचेतनोपादानत्वादर्थक्रियाकारित्वात्कार्यत्वाद्वा घटवदिति साधनमुच्यते, तस्यात्मान्तरमीश्वराख्यं बुद्धिमत्कारणमन्तरेणाचेतनस्यात्मनोऽनीशस्य धर्माधर्मयोश्चाचेतनयोर्विचित्रोपभोग ६३९ योग्यतनुकरणभुवनादिनिर्मापणकौशलासम्भवात्तन्निमित्तकारणात्मान्तरं बुद्धिमत्कारणमेषितव्यमित्यनेन व्यतिरेकः समर्थ्यते । कुलालमन्तरेण मृत्पिण्डदण्डादेः स्वयमचेतनस्य घटादिनिष्पादनकौशलासम्भववदिति वैधर्म्यदृष्टान्तप्रदर्शनम् । सत्येव कुलाले मृत्पिण्डादेर्घटादिसंपादनसामर्थ्यदर्शनादिति चान्वयसमर्थनमभिधीयते । न चैतदभिधातुं शक्यमन्यथानुपपत्तेरभावात् । बुद्धिमता कारणेन विना विरम्यप्रवृत्त्यादेरसम्भवादन्यथानुपपत्तिरस्त्त्येवेति चेत्, न, ( भा० ) तस्यापि वितनुकरणस्य तत्कृतेरसम्भवात्, कालादिवत् । ( भा० ) तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमप्रतिषिद्धं, सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलालादिः सतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तस्तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनया व्यतिक्रम्यते, तथा कर्मणामचेतनानामपि तन्निमित्तत्वकल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां, विशेषाभावात् । स्यान्मतं—‘सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तृत्वं दृष्टं, कुटादिकार्यं कर्तुमबुद्ध्यमानस्य तददर्शनाद्, तद्बुद्धिमतोऽपीच्छापाये तदनुपलब्धेस्तदिच्छावतोऽपि प्रयत्नाभावे तदनुपलम्भात् तद्वद्वितनुकरणस्यापि अष्टसहस्त्रीतात्पर्यविवरणम् कारणस्यापि, वितनुकरणस्य = तनुकरणरहितस्य, तत्कृतेः = करणभुवनादिकृतेः । कालादिवदिति टीकाकृतोक्तो दृष्टान्तस्तादृशोऽपीत्यग्रेतनभाष्यफक्किकयाऽन्वेति । तद्वद्विनुकरणस्यापीति प्रयोगश्चात्र कार्यं सकर्तृकं कार्यत्वात् घटवदित्याकार एव, पक्षतावच्छेदकं च प्रागभावप्रतियोगित्वं, न तु कृतिसाध्यत्वादिकमिति न सिद्धसाधनं, पक्षतावच्छेदका

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294