Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 239
________________ ६४१ द्वितीयो भागः [परि० १०-का. ९९] त्वमनाद्यनन्तमशरीरत्वात्, परप्रसिद्ध्या कायकरणोत्पत्तेः पूर्वमस्मदाद्यशरीरत्ववत् । नेश्वरबुद्ध्यादयो नित्या बुद्ध्यादित्वादस्मदादिबुद्ध्यादिवदिति । एतेनागमात् अपाणिपाद इत्यादेरीश्वरस्याशरीरत्वसाधनं प्रत्याख्यातं, तस्य युक्तिबाधितत्वात् । ततः एव सशरीरो महेश्वरोऽस्त्विति चेत्, न, तच्छरीरस्यापि बुद्धिमत्कारणापूर्वकत्वे तेनैव कार्यत्वादिहेतूनां व्यभिचारात् । तस्य बुद्धिमत्कारणपूर्वकत्वे वापरापरशरीरकल्पनायामनवस्थाप्रसङ्गात् पूर्वपूर्वस्वशरीरेणोत्तरोत्तरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथा प्रसिद्धेरीश्वरकल्पनावैयर्थ्यात्, स्वोपभोग्यभवनाद्युत्पत्तावपि तेषामेव निमित्तकारणत्वोपपत्तेः, इति न कार्यत्वाचेतनोपादानत्वसन्निवेशविशिष्टत्वहेतवो गमकाः स्युः । अष्टसहस्त्रीतात्पर्यविवरणम् ऽनाद्यनन्तत्वेन व्याप्त इति हेतोविरुद्धत्वं, तथापि आत्मनिष्ठस्य शरीरपरिग्रहाभावस्य ध्वंसपर्यवसितस्य ग्रहान्न दोष इति बोध्यम् । एतेनेति ईश्वरेऽशरीरत्वस्य कादाचित्कत्वानुमानप्रदर्शनेनेत्यर्थः । कथं वाऽपाणिपादत्वप्रतिपादक एवागमः प्रदेशान्तरे ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयन् स्वाङ्गैरेव न विरुन्ध्यात् ? (शङ्का) । भूतावेशन्यायेन तस्य ब्रह्मादिशरीरपरिग्रहोपपत्तिरिति चेद्, दूराद् भ्रान्तोऽसि, भूतावेशस्यापि स्वीयवैक्रियशरीरेणात्मान्तरशरीरे भूतप्रवेशरूपस्य तददृष्टहेतुकत्वात्, अन्यथात्मविभुत्वपक्षे सर्वत्र सर्वावेशापत्तेः, तस्माददृष्टहेतुकयोरावेशपरिग्रहयोर्मध्ये नैकतरस्यापीश्वरे सम्भव इति सुष्ठुक्तं श्रीहेमसूरिभिः धर्माधर्मी विना नाङ्गं, विनाङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं, तच्छास्तार: परे कथम् ? ॥ इत्यादि, [वीतरागस्तोत्र ७.१] अथ आवेशे आविशतोऽदृष्टं न हेतुः किं त्वावेशाधिकरणस्य ततस्तद्गतयोरेव सुखदुःखयोरुत्पादनात् तद्वत् परादृष्टेनेश्वरस्य ब्रह्मादिशरीरग्रहोपपत्तिरिति चेत्, न, आवेशे आविशतोऽप्यदृष्टस्य तद्गतबन्धोदयनिर्जरादिनिर्वाहकस्य हेतुत्वेनोभयादृष्टजन्यत्वव्यवस्थितेः, अन्यथा मुक्तस्यापि क्वचिदावेशापत्तेः, किञ्च आविशत ईश्वरस्यावेशाधिकरणब्रह्माद्यात्मभिन्नत्वे ब्रह्मविष्णशिवैक्यप्रतिपादकश्रतिविरोधोऽपि । न च शबावेशवद ब्रह्मादिशरीरे वेदादिहेतावीश्वरावेशोपपत्तिः, तच्छब्दे तच्छरीरस्येव तददृष्टस्यापि हेतुत्वात्, दृष्टमर्यादातिक्रमे च विनैव शरीरावेशं वेदाधुच्चारेण व्यवहारं निर्वाहयेदिति न किञ्चिदेतत् । सर्वावेशवासनां

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294