Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
६४८
अष्टसहस्त्रीतात्पर्यविवरणम् शुद्ध्यशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥१००॥
[भव्यत्वाभव्यत्वयोर्लक्षणम्] शुद्धिस्तावज्जीवानां भव्यत्वं केषाञ्चित्सम्यग्दर्शनादियोगान्निश्चीयते । अशुद्धिरभव्यत्वं तद्वैपरीत्यात् सर्वदा प्रवर्तनादवगम्यते छद्मस्थैः, प्रत्यक्षतश्चातीन्द्रियार्थदर्शिभिः । इति
(भा०) भव्येतरस्वभावौ शुद्ध्यशुद्धी जीवानां । (भा०) तेषां सामर्थ्यासामर्थ्य शक्त्यशक्ती इति यावत् । ते (भा०) माषादिपाक्यापरशक्तिवत्
सम्भाव्येते सुनिश्चितासम्भवबाधकप्रमाणत्वात् । तत्र शुद्धेर्व्यक्तिः सादिस्तदभिव्यञ्जकसम्यग्दर्शनादीनां सादित्वात् । एतेनानादिः सदाशिवस्य शुद्धिरिति प्रत्युक्तं प्रमाणाभावाद् दृष्टातिक्रमादिष्टविरोधाच्च । अशुद्धः पुनरभव्यत्वलक्षणाया व्यक्तिरनादिस्तदभिव्यञ्जकमिथ्यादर्शनादिसन्ततेरादित्वात् । पर्यायापेक्षयापि शक्तेरनादित्वमिति चेत्, न, द्रव्यापेक्षयैवानादित्वसिद्धेः । इति
(भा०) शक्तेः प्रादुर्भावापेक्षया सादित्वम् ।
ततः शक्तिर्व्यक्तिश्च स्यात्सादिः, स्यादनादिरित्यनेकान्तसिद्धिः । यदि वा जीवानाम् ।
(भा० ) अभिसन्धिनानात्वं शुद्ध्यशुद्धी । स्वनिमित्तवशात् सम्यग्दर्शनादिपरिणामात्मकोऽभिसन्धिः शुद्धिः, मिथ्या
- अष्टसहस्त्रीतात्पर्यविवरणम् तयोर्व्यक्ती इति, गुणनिमित्तसाहजिकक्षयोपशमाधीनकार्यप्रादुर्भावपर्यायावित्यर्थः । ननु निक्षेपरूपमुपेयोपायतत्त्वग्राहकमुपायान्तरमस्तीति प्रमाणनयैरेवेत्यवधारणं कुत इत्या

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294