Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 230
________________ ६३२ अष्टसहस्त्रीतात्पर्यविवरणम् मिथ्याज्ञानस्य च अज्ञानस्य च मोहनीयकर्मप्रकृतिं लक्षयतः पुंसो बन्धनिबन्धनत्वोपपत्तेः सकषायत्वाज्जीवः कर्मणो योग्यान्युद्गलानादत्ते स बन्ध इति वचनात् [तत्त्वा० ८.२] । (भा०) ततोऽन्यतोऽपि बन्धाभ्युपगमेऽतिप्रसङ्गात् । क्षीणोपशान्तकषायस्याप्यज्ञानाद् बन्धप्रसक्तेः । [केवलिनोऽपि प्रकृतिप्रदेशबन्धौ स्तः इति कथने सति कथयन्ति आचार्याः ___ यत् तौ बन्धौ संसारकारणे न स्तः अकार्यकारित्वात् ।] प्रकृतिप्रदेशबन्धस्तस्याप्यस्तीति चेत्, न, तस्याभिमतेतरफलदानासमर्थत्वात् सयोगकेवलिन्यपि सम्भवादविवादापन्नत्वात् । न चात्रागममात्रं, युक्तेरपि सद्भावात् । तथा हि-विवादापन्नः प्राणिनामिष्टानिष्टफलदानसमर्थपुद्गलविशेषसम्बन्धः कषायैकार्थसमवेताज्ञाननिबन्धनस्तथात्वात्पथ्येतराहारादिसम्बन्धवत् । नात्र प्रतिज्ञार्थंकदेशत्वादसिद्धो हेतुर्धर्मिणानेकान्तात, तस्य प्रतिज्ञार्थधर्मिधर्मसमूहैकदेशत्वेऽपि प्रसिद्धत्ववचनात्, अनित्यः शब्दः शब्दत्वादित्यत्रापि हेतोरसिद्धत्वविरोधात् । न चात्र विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतः कश्चिद्दोषः, प्रयत्नानन्तरीयकः शब्दो विनश्वरः, प्रयत्नानन्तरीयकत्वाद् घटवदिति यथा । ननु शब्दस्य धर्मित्वे पक्षाव्यापको हेतुः स्यात्, समुद्रघोषादेः प्रयत्नानन्तरीयकत्वाभावात् । ततोऽत्र प्रयत्नानन्तरीयक: शब्दो विशिष्टो धर्मीति चेत्, - अष्टसहस्रीतात्पर्यविवरणम् - ज्ञानस्याज्ञानस्य' चेति प्रसज्यपर्युदासाभ्यामज्ञानपदस्योभयार्थत्वादिति भावः । क्षीणोपशान्तेति न च एवं कषायत्वेनैव सामान्यतो बन्धहेतुता किं कषायविशिष्टाज्ञानत्वेन गुरुतरकार्यकारणभावेन ? इति वाच्यम् । अन्वयव्यतिरेकग्रहस्यैव तत्र साक्षित्वात्, तयोश्च पथ्येतराहारादिसम्बन्धदृष्टान्तेन कर्मपुद्गलसम्बन्धं प्रत्यज्ञानत्वेनैव प्रसिद्धः, तत्रातिप्रसङ्गभङ्गार्थं पुनः कषायैकसमवेतत्वविशेषणनिवेशात्, पटादौ तन्तुत्वादिना कारणत्वेऽप्यन्वयव्यतिरेकानुविधानस्यैव प्रयोजकत्वात्, अन्यथा शक्तिविशेषाभावविशेषादेरेव हेतुत्वप्रसङ्गाद्विशेषणविशेष्यभावेन विनिगमनाविरहस्याप्यत एव निरासादिति दिग । न चात्रेति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाच्चात्र न ध्वनिरूपशब्दे सिद्धसाधनम्, १. मिथ्याज्ञानस्य च इति अष्टसहस्रीसम्मत पाठः ।

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294