Book Title: Anusandhan 2011 06 SrNo 55
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मई २०११
यैश्चापि स्मरभूधवो बहुबलोऽजेयो जितो लीलया दान्तैर्हेतिविवजितैरनुदिनं तेभ्योऽस्त्वजस्त्रं नमः ॥१०२।। पीयूषप्रतिमं निपीय व[च] नं प्रेक्ष्याऽलसां सद्गतिं सप्रेमेक्षितमद्भुतप्रदमनिन्द्यं विभ्रमं भ्रूभवम् । वक्षोजौ च गभीरनाभिवलयं मध्यं कृशं योषितां स्वान्तं नो विकृतिं जगाम नियतं येषां हि तेभ्यो नमः ॥१०३।। वामा क्लीबवदुत्तमैर्हि पशुमद्धेयं च सद्मासनं कुड्यस्याऽऽन्तरमप्यनङ्गरसयुक् स्त्रीणां कथा भिक्षुभिः प्राक्केलिस्मृतिरङ्गवीक्षणमपि स्वाङ्गेषु सत् संस्कृतिवर्षं चाऽत्यशनं प्रणीतमपि च ब्रह्मव्रताराधकैः ॥१०४॥ शीलं चन्दनचन्द्रकाशकुसुमप्रालेयपिण्डोज्ज्वलं याः प्राग्यं परिपालयन्ति नितरां तुच्छाऽपि ताभिॉहो !। स्त्रीजातिः पुरुहूतमुख्यसुमनोभिर्दानवैर्मानवैनिर्ग्रन्थैः सुविचक्षणैरपि जने स्तुत्याः कृता नित्यशः ॥१०५॥ याः श्रीनन्दनसन्निभानपि परान् स्वप्नेऽपि वाञ्छन्ति नो पुंसो जल्पमनल्पमन्यमनुजैः साकं न याः कुर्वते । यास्तुर्यव्रतधर्मपालनपरा रत्नत्रिकाराध(धि)कास्ता लक्ष्मीरिह मन्महे वयमहो साक्षान्न वै योषितः ॥१०६॥ अमङ्गलं शाम्यति दुःखजालं प्रणश्यति द्रागिह सर्वकालम् । येषां प्रशस्यादपि दर्शनाद् वै जयन्तु ब्रह्मव्रतधारिणस्ते ॥१०७।। सुसञ्चितं धर्मधनं प्रविश्य यो वर्मगेहेऽपहरत्यजस्रम् । अनङ्गचौरः प्रबलो जितो यैः सोऽप्यत्र तेभ्योऽस्तु नमस्त्रिसन्ध्यम् ॥१०८।। सर्वज्ञसिद्धान्तपुरे प्रकुर्वन् राज्यं कृपाह्वोत्तमपट्टदेव्या । समं च सम्यक्त्वमहाप्रधान-प्रभूषितः शीलनृपोऽत्र जीयात् ॥१०९।। यक्षाद्याः शकडालमन्त्रितनयाः सप्ताऽथ कंसद्विषो भामाद्या दयिताः सतीजननुताः कुन्त्यादिकाश्चाऽपराः । कौशल्याऽपि च देवकी जिन[पद]न्यस्ताः समस्ता अपि श्रेयांसीह वितन्वतामनुदिनं सत्यः प्रभूतानि वः ॥११०॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158