Book Title: Anusandhan 2011 06 SrNo 55
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मई २०११
११५
जे माटि अवक्तव्य शब्दविषय कहिइं तो विरोध थाइ.
अथवा सविकल्प शब्द-समभिरूढ नयमतइं, अनइं निर्विकल्प अवम्भूतनयमतइं, इम २ भंग जाणवा, अर्थनय प्रथम ४ तो व्यंजनपर्याय मानइ नहीं. ते माटई ते नयनी इहां प्रवृत्ति नथी. अधिकुं अनेकान्तव्यवस्थाथी जाणवू.
तदेवमेकत्र विषये प्रतिस्वमनेकनयप्रतिपत्तिस्थले स्यात्कारलाञ्छिततावन्नयार्थप्रकारकसमूहालम्बनबोधजनक एक एव भङ्ग एष्टव्यः, व्यञ्जनपर्यायस्थले भङ्गद्वयवद् । यदि च सर्वत्र सप्तभङ्गीनियम एव आश्वासः, तदा-चालनीयन्यायेन तावन्नयार्थनिषेधबोधको द्वितीयोऽपि भङ्गः तन्मूलकाश्चाऽन्येऽपि तावत्कोटिकाः पञ्च भङ्गाश्च कल्पनीयाः, इत्थमेव निराकाङ्क्षसकलभङ्गनिर्वाहाद्, इति युक्तं पश्यामः ।
ओ विचार स्याद्वादपंडितइं सूक्ष्मबुद्धिं चित्तमांहि धारवो ॥४.१३।।
शब्दनयोमां अवक्तव्यभङ्ग केम ना मळे तेनी
अनेकान्तव्यवस्थागत चर्चा अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते, न शब्दाश्रवणात्, अवक्तव्यं तु शब्दाभावविषय इति नाऽवक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता 'व्यञ्जनपर्याये तु सविकल्पक-निर्विकल्पौ' प्रथम-द्वितीयावेव भङ्गावभिहितावाचार्येणेति टीकाकृतो व्याचक्षते ।
___ अत्र वक्तरि यत् सप्तभङ्ग्यर्थज्ञानं तन्मानसोत्प्रेक्षोपनीतपदार्थसंसर्गभानरूपं, श्रोतरि तु शाब्दमेव तत् सम्भवति, अवक्तव्यं तु न शब्दविषयः किन्तु शब्दाभावविषय इति यद् व्यञ्जननयतात्पर्यमुन्नीतं तत् कथं सङ्गच्छते ?, शब्दाभावस्याऽप्रमाणत्वेन कस्याऽप्यर्थस्य तदविषयत्वात्, कथञ्चिन्मते शब्दानुपलब्धेः शब्दाभावविषयप्रमाणत्वेऽपि तां विना तद्विषयं विलक्षणं ज्ञानं मा जनि, अवक्तव्यपदाद् वक्तव्यत्वाभावविषयशाब्दबोधोत्पत्तौ किं बाधकम् ? नहि भावविषयक एव शाब्दबोधो भवति, न त्वभावविषयक इत्यत्र प्रमाणमस्ति,

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158