Book Title: Anusandhan 2011 06 SrNo 55
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 122
________________ ११६ अनुसन्धान-५५ पदज्ञानादिकार्यतावच्छेदककोटौ भावशाब्दत्वप्रवेशे गौरवात्, 'घटो नास्ति' इत्यादेर्घटाभावादिबोधस्य सार्वजनीनत्वाच्च । तत्रापि नञ उपसर्गवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव, घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत् ? न- 'न न घट:' इत्यत्रैकस्माद् घटपदाद् घटत्व - घटाभावाभावत्वाभ्यामेकदा शक्तिलक्षणाभ्यां बोधासम्भवेन नञः पृथक्शक्तिकल्पनावश्यकत्वाद्; द्योतकत्वपक्षेऽपि 'घटो नास्ति' इत्यादिवाक्यरीत्यैव 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधाप्रतिरोधाच्च । तस्मान्नाऽयं प्राञ्जलः पन्थाः । किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्' । तद्बोधनं त्वर्थनये मानसोत्प्रेक्षोपस्थित-खण्डशःप्रसिद्धपदार्थासंसर्गाग्रहमात्रात् कथञ्चित्संसर्गग्रहाद् वा सम्भवति । व्यञ्जननये तु तन्न सम्भवति, ‘असतो णत्थि णिसेहो' इत्यादि भाष्यकृद्वचनादुक्तविशिष्टप्रतियोगिनोऽसिद्ध्या तदभावस्याऽप्यसिद्धत्वात् पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात् । न च स्यात्पदसमभिव्याहृतावक्तव्यपदात् प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एकपदार्थयोः परस्परमन्वयबोधस्याऽव्युत्पन्नत्वात्, अन्यथा हरिपदादुपस्थितयोः सिंह-कृष्णयोराधाराधेयभावसम्बन्धेनाऽन्वयबोधप्रसङ्गादिति सूक्ष्मेक्षिकामनुसरता व्यञ्जनननयेन प्रकृते नञ्व्यत्यासादेकपदाजनितप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं तच्च भङ्गद्वयार्थमादाय पर्यवस्यतीति व्यञ्जननये द्वावेव भङ्गाविति व्याख्यातृतात्पर्यं सुष्ठु घटामटाट्यते । देशकृतश्चतुर्थभङ्गस्तु व्यञ्जननयेन शुद्धेन देश्यतिरिक्त– देशाभावादेव नोद्भावनार्ह इति विभावनीयं सुधीभिः ॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158