________________
११६
अनुसन्धान-५५
पदज्ञानादिकार्यतावच्छेदककोटौ भावशाब्दत्वप्रवेशे गौरवात्, 'घटो नास्ति' इत्यादेर्घटाभावादिबोधस्य सार्वजनीनत्वाच्च ।
तत्रापि नञ उपसर्गवद् द्योतकतया तात्पर्यग्राहकत्वमात्रमेव, घटपदस्य घटप्रतियोगिके लक्षणाध्रौव्येऽभावान्तर्भावेनैव तस्या युक्तत्वादिति चेत् ? न- 'न न घट:' इत्यत्रैकस्माद् घटपदाद् घटत्व - घटाभावाभावत्वाभ्यामेकदा शक्तिलक्षणाभ्यां बोधासम्भवेन नञः पृथक्शक्तिकल्पनावश्यकत्वाद्; द्योतकत्वपक्षेऽपि 'घटो नास्ति' इत्यादिवाक्यरीत्यैव 'स्यादवक्तव्यो घटः' इत्यतोऽवक्तव्यत्वबोधाप्रतिरोधाच्च । तस्मान्नाऽयं प्राञ्जलः पन्थाः ।
किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्' । तद्बोधनं त्वर्थनये मानसोत्प्रेक्षोपस्थित-खण्डशःप्रसिद्धपदार्थासंसर्गाग्रहमात्रात् कथञ्चित्संसर्गग्रहाद् वा सम्भवति । व्यञ्जननये तु तन्न सम्भवति, ‘असतो णत्थि णिसेहो' इत्यादि भाष्यकृद्वचनादुक्तविशिष्टप्रतियोगिनोऽसिद्ध्या तदभावस्याऽप्यसिद्धत्वात् पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात् ।
न च स्यात्पदसमभिव्याहृतावक्तव्यपदात् प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एकपदार्थयोः परस्परमन्वयबोधस्याऽव्युत्पन्नत्वात्, अन्यथा हरिपदादुपस्थितयोः सिंह-कृष्णयोराधाराधेयभावसम्बन्धेनाऽन्वयबोधप्रसङ्गादिति सूक्ष्मेक्षिकामनुसरता व्यञ्जनननयेन प्रकृते नञ्व्यत्यासादेकपदाजनितप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं तच्च भङ्गद्वयार्थमादाय पर्यवस्यतीति व्यञ्जननये द्वावेव भङ्गाविति व्याख्यातृतात्पर्यं सुष्ठु घटामटाट्यते । देशकृतश्चतुर्थभङ्गस्तु व्यञ्जननयेन शुद्धेन देश्यतिरिक्त– देशाभावादेव नोद्भावनार्ह इति विभावनीयं सुधीभिः ॥