SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मई २०११ ११५ जे माटि अवक्तव्य शब्दविषय कहिइं तो विरोध थाइ. अथवा सविकल्प शब्द-समभिरूढ नयमतइं, अनइं निर्विकल्प अवम्भूतनयमतइं, इम २ भंग जाणवा, अर्थनय प्रथम ४ तो व्यंजनपर्याय मानइ नहीं. ते माटई ते नयनी इहां प्रवृत्ति नथी. अधिकुं अनेकान्तव्यवस्थाथी जाणवू. तदेवमेकत्र विषये प्रतिस्वमनेकनयप्रतिपत्तिस्थले स्यात्कारलाञ्छिततावन्नयार्थप्रकारकसमूहालम्बनबोधजनक एक एव भङ्ग एष्टव्यः, व्यञ्जनपर्यायस्थले भङ्गद्वयवद् । यदि च सर्वत्र सप्तभङ्गीनियम एव आश्वासः, तदा-चालनीयन्यायेन तावन्नयार्थनिषेधबोधको द्वितीयोऽपि भङ्गः तन्मूलकाश्चाऽन्येऽपि तावत्कोटिकाः पञ्च भङ्गाश्च कल्पनीयाः, इत्थमेव निराकाङ्क्षसकलभङ्गनिर्वाहाद्, इति युक्तं पश्यामः । ओ विचार स्याद्वादपंडितइं सूक्ष्मबुद्धिं चित्तमांहि धारवो ॥४.१३।। शब्दनयोमां अवक्तव्यभङ्ग केम ना मळे तेनी अनेकान्तव्यवस्थागत चर्चा अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, यतः श्रोत्रभिप्रायो व्यञ्जननयः, स च शब्दश्रवणादर्थं प्रतिपद्यते, न शब्दाश्रवणात्, अवक्तव्यं तु शब्दाभावविषय इति नाऽवक्तव्यभङ्गको व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता 'व्यञ्जनपर्याये तु सविकल्पक-निर्विकल्पौ' प्रथम-द्वितीयावेव भङ्गावभिहितावाचार्येणेति टीकाकृतो व्याचक्षते । ___ अत्र वक्तरि यत् सप्तभङ्ग्यर्थज्ञानं तन्मानसोत्प्रेक्षोपनीतपदार्थसंसर्गभानरूपं, श्रोतरि तु शाब्दमेव तत् सम्भवति, अवक्तव्यं तु न शब्दविषयः किन्तु शब्दाभावविषय इति यद् व्यञ्जननयतात्पर्यमुन्नीतं तत् कथं सङ्गच्छते ?, शब्दाभावस्याऽप्रमाणत्वेन कस्याऽप्यर्थस्य तदविषयत्वात्, कथञ्चिन्मते शब्दानुपलब्धेः शब्दाभावविषयप्रमाणत्वेऽपि तां विना तद्विषयं विलक्षणं ज्ञानं मा जनि, अवक्तव्यपदाद् वक्तव्यत्वाभावविषयशाब्दबोधोत्पत्तौ किं बाधकम् ? नहि भावविषयक एव शाब्दबोधो भवति, न त्वभावविषयक इत्यत्र प्रमाणमस्ति,
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy