Book Title: Anusandhan 2011 06 SrNo 55
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मई २०११
११३
वादमहार्णव-टीकागत प्रस्तुत गाथा- विवरण
अन्योन्यापरित्यागव्यवस्थितस्वरूपवाक्यनयानां शुद्ध्यशुद्धिविभागेन संग्रहादिव्यपदेशमासादयतां द्रव्यार्थिकपर्यायार्थिकनयावेव मूलाधार इति प्रदर्शनार्थमाह
एवं सत्तवियप्पो वयणपहो होइ अत्थपज्जाए ।
वंजणपज्जाए उण सवियप्पो णिव्वियप्पो य ॥४१॥ एवं इत्यन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदः वचनमार्गो वचनपथः भवत्यर्थपर्याये अर्थनये सङ्ग्रह-व्यवहार-ऋजुसूत्रलक्षणे सप्ताऽप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमः सङ्ग्रहे सामान्यग्राहिणि, 'नास्ति' इत्ययं तु व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहऋजुसूत्रयोः, षष्ठो व्यवहार-ऋजुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहार-ऋजुसूत्रेषु । व्यञ्जनपर्याये शब्दनये सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात् । द्वितीय-तृतीययोनिर्विकल्पः द्रव्यार्थात् सामान्यलक्षणान्निर्गतपर्यायाभिधायकत्वात् समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्याऽपि विवक्षितक्रियाकालार्थत्वात् । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वात् शब्दादिषु तृतीयः । प्रथम-द्वितीयसंयोगे चतुर्थः, तेष्वेव चाऽनभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमा वचनमार्गा भवन्ति ।
अथवा प्रदर्शितस्वरूपा सप्तभङ्गी सङ्ग्रह-व्यवहार-ऋजुसूत्रेष्वेवाऽर्थनयेषु भवतीत्याह- एवं सत्तवियप्पो इत्यादिगाथाम् । अस्यास्तात्पर्यार्थः
____ अर्थनय एव सप्त भङ्गाः, शब्दादिषु तु त्रिषु नयेषु प्रथम-द्वितीयावेव भङ्गौ । यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रह-व्यवहार-ऋजुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तेः, अर्थं प्रधानतयासौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि तच्छब्दश्रवणादुद्गच्छति शब्द-समभिरूढ-एवंभूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं, तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं, तदुत्पत्तावनिमित्तत्वात्, स शब्दनय उच्यते । तत्र च वचनमार्गः सविकल्प-निर्विकल्पतया द्विविधः- सविकल्पं सामान्यं, निर्विकल्पः पर्यायः, तदभिधानाद् वचनमपि तथा व्यपदिश्यते । तत्र

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158