Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ 18 अनुसन्धान ३९ अव० नार्यालीहयमं दयामयमलं भासं धरन्तं परं रांकालिं पवलोतयं अखचयासत्तं कमालाचितं । धीरं लोअमहंददावहकलं छिन्नाहमायालदं नाधा निदरेसि वंद( उं) पई साणंदसीसल्लहं ॥३८॥ आद्ये अंहौ संस्कृतं १, सम. २, प्रा. ३ । द्वितीये पैशाची(चि)की-चूलिकापैशाचिके । तार्तीयीके मागधी-सूरसेन्यौ । तुर्येऽपभ्रंशः ॥ १. अयाली लाभश्रेणिस्तत्र ईहा-आकाङ्क्षा येषु ते तथा, एवंविधा यमा अहिंसाद्या यस्य स, नैवंविधि(ध), समसंस्कृतेऽप्येवम्; न्यायालीहतमन्दतामदमलं भाषां धरन्तं पराम्, अथवा हिट् गतिवृद्धौ, हयनं हयोऽच्प्रत्ययः (२); आयाली = वृद्धिहन्तारं (३) भाषाम; २. राकासखी नैर्मल्येन प्रबलोदयं, नेन्द्रियचयासक्तं, सुखा(?)मालाचितं =व्याप्तम् (१); रागारिप्रवरोदयम्, अघजयासक्तम्, ज्ञानश्रीराजितम्(२); ३. धीरं लोकमहत्ताविधकरं, छिनाधमाचारभावम्(१); धीमन्तं बुद्धिग्राहकं, धिया वा ईला स्तुतिर्यस्य तं, लोकमहत्ता(त्तावहा) कला यस्य स तं, छिन्नदुःखमायालतम् (२); ४. हे नाथ ! निर्वृत्त्यर्थं, तादर्थ्य केहिं तेहिं रेसि रेसिं तणेणाः [सि.हे. ८/४/४२५]. अपभ्रंशे तादर्से द्योत्ये एते पञ्च निपाताः; वन्दे, अप्रत्ययस्याऽऽद्यस्य उ(अन्त्यत्रयस्याऽऽद्यस्य उ) [सि.हे. ८/४/३८५] त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्याऽपभ्रंशे उं इत्यादेशो वा स्यात्; त्वां सानन्दं यथा भवति शीर्षेण ॥ नन्दाऽऽप्तोरुविशुद्ध-योगरभस(सो)न्मीलन् प्रतोषान्वितं सुष्टः सौष्ठवभग्नमोहरचनस्त्वं 'कञ्जहस्तच्छविः । रुच्या भास्करतिग्मशुद्धिरमणीसङ्क्लुप्तभावः परं रत्नाज्ञान(रत्नज्ञान?)रमांशमास्तरु(र)थ मे तन्याः सुविद्यां चिरम् ॥३९॥ कविनामगर्भं चक्रम् ॥ १. नन्द त्वमिति सम्बन्धः, हे प्राप्तोरुविशुद्ध-योग-रभसोन्मीलन्, प्रतोषान्वितं यथा भवति; २. एवं कमलहस्तच्छविः; ३. रुच्या कान्त्या सूर्य = तीव्र !॥ अव० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106