Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 90
________________ अप्रिल २००७ सद्यः प्रेक्ष्य मनोभवोपममिदं साऽपि द्रवत्वं गता सम्भोगः प्रथमस्तयोरिति गतः सिद्धिं न तत्र क्षणे ॥५०॥ परस्परं रूपविमोहितौ तौ गतौ द्रवत्वं समकालमेव । ततस्त्रपाभारभरावभूत-मन्योन्यमेतेन न सङ्गसिद्धिः ॥ ५१ ॥ पाठान्तरम् ४ भर्तुर्वियोगेन विषण्णचित्ता, काचित् कुरङ्गीनयना निशीथे । उद्वेजकं सर्वमपीति मत्वा, कस्मात्करानेणभृतः सिषेवे ॥५२॥ तत्राप्येते शशधरकरौ मत्पतेरङ्गसङ्ग, कुर्वन्त्येव ध्रुवमिति वधूश्चेतसि स्वे विचिन्त्य । तानत्रापि स्वपतिवपुषाऽऽ लिङ्गितानिन्दुपादान्, प्रेष्ठान्कष्टादपि विरहिणी चक्रवाकीव भेजे ॥५३॥ ६नैशसन्तमससञ्चयराहु – ग्रस्तदृक्प्रसरपङ्क्तिहयोऽपि । कोऽप्यचित्रितमपीह, सचित्रं, हस्तमैक्षत समस्तमिदं किम् ॥५४॥ किमत्र चित्रं गगने निशायां, हस्तं स चित्रायुतमप्यपश्यत् । विचार्यते किं मुहुरेष चार्थो, दृष्टोऽपि नित्यं बहुभिः स्वनेत्रैः ॥५५॥ जित्वा रिपुबलमखिलं समिति झटित्येव कर्मचन्द्र ! त्वम् । धृतजयलक्ष्मीकोऽपि हि नाऽतुष्यस्तत्र को हेतुः ? ॥५६॥ अधिकसूरतया समरोत्सवं, रचयतस्तव वीतमिमं क्षणात् । सचिवशेखर ! तेन जिताप्यभू- न रतिदा रतिदापि पताकिनी ॥ ५७ ॥ युवा कोऽपि प्रातर्विषमविशिखो' - द्वेजितमना अमुञ्चद् बन्धूकप्रसवमुडुपास्यामभिमताम् । ततः साऽपि प्राप्य प्रियहृदयभावं स्मितमुखी, हरिद्रामेवानुं कथय किममुञ्चत् कविवर ! ॥५८॥ बन्धूकपुष्पेन स मध्यमह्नः, संकेतहेतोः कथयाम्बभूव । सा दर्शयामास हरिद्रयाऽथो, दोषामदोषामिति मन्त्रिराज ! ॥ ५९ ॥ 85 १. ब. बभूवतुः । २. ब. पाठान्तरेण । ३. ब. सती । ४. ब. उद्वेगकारकं । ५. ब. चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । ६. ब. अन्धकारं । ७. पंक्तिशब्दो दशवाची, पंक्तिहयाः यस्य । ८. ब. संग्रामे । ९. ब. बाणा:, विषमविशिखा यस्यासौ कामदेवः | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106