Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अप्रिल-२००७
81
एकान्तस्थितिमाश्रिताऽपि च पराङ्वक्त्राऽपि भूरित्रपा
___ वीचिव्यूहनिमग्नचित्तचटुला कास्मादकस्मा]दभूत् ॥११॥ पृष्ठस्थितस्य निजजीवितवल्लभस्य, वक्त्रारविन्दममलं मुकुरे समीक्ष्य । श्रीकर्मचन्द्रसचिवेश्वर ! तेन चैषा, [लज्जावती नव]वधूः सहसा बभूव ॥१२॥ काचित्कुलीनवनिता रमणेन दूर-देशात् सुकङ्कणयुगं प्रहितं निरीक्ष्य । निःश्वासदग्धदशनच्छदै(माप्तदुःखा], [गूढं रु]रोद वद कोविद किं निदानम् ।।१३।। नाथः स मां विरहवह्निकृशां न वेत्ति, नाऽसावपीह विरहा[तुरचित्तवृत्तिः । [नो चेत् कथं पृथुलकङ्कणयुग्ममत्र] मां मुञ्चतीति विगणय्य॑ वधू रुरोद ॥१४॥ काचिन्निजं कान्तमवेक्ष्य कोप-कल्लोलामग्नावनताननाऽभूत्] । [तत्कारणं पृच्छति सत्यमुष्मिन], [किं दर्पणं तस्य] करे [ददौ सा]॥१५॥ अन्याङ्गानानय]नपङ्कजचुम्बनेन, कृष्णाधरस्ति[लकचित्रितभालदेशः] । [अप्येष पृच्छति रुडुद्भवहेतुमस्मात्, सा दर्पणं वितराति स्म करे तदीये ।।१६।। [काचिनिजे भर्तरि दूरदेशं, सम्प्र[स्थिते तत्कुशलेषिणी सा] [गच्छाऽऽशु माऽभूत्तव] दर्शनं मे, शीघ्रं वधूरेवमुवाच कस्मात् ॥१७॥ तद्यान -माकर्ण्य मृतामवश्यं, मुक्त्वा (समायाति तदेत्य वल्गु]। [मा दर्शनं मेऽस्तु] ततो मृताया, नाथस्य शीघ्रं बहुजीवितस्य ॥१८॥ पूर्णणाङ्कमुखी महं हृदि मम त्रस्तैणशावेक्षणे,
[त्वामद्यैव विभावयामि च नि]जप्राणप्रिये२ स्वप्रियाम् । इत्थं जल्पति हास्यपेशल-मथो सा स्वं करेण द्रुतं,
___ गल्लं फुल्लमधूकपुष्पपुलिनं पस्पर्श वस्त्रेण (किम्] ॥१९॥ पूर्णे चन्द्रमसि ध्रुवं बत भवत्येव स्फुटं लाञ्छनं,
नाऽस्मद्वक्त्रसरोरुहेऽतिविमले कालुष्यलेशोऽपि च तज्ज्ञाने खलु सोपमानावचसाऽनेना]ऽधुना कज्जलं,
गल्लेऽस्तीति ममार्ज" लोलनयना हस्तेन गल्लस्थलम् ॥२०॥ १. अ.ब. बह्वी । २. अ.ब. समूहं । ३. ब. दन्तपत्रम् । ४. ब. गुप्तम् । ५. अ. पीडितव्यापारः । ६. ब. विचार्य । ७. ब. भर्तरि । ८. अ. गमनम् । ९. ब. चारु । १०. ब. अङ्ककलङ्कोऽभिज्ञानम् । ११. ब. जानामि । १२. ब. भर्तरि । १३. ब. मनोहरं । १४. ब. कृत्वा । १५. ब. सह । १६. ब. निश्चितम् । १७. ब. मृजूष् शुद्धौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106