Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 36
________________ September-2005 सेवालेखः ॥ स्वस्ति श्रीः प्रसभं सभासु भगवत्पादाग्रजाग्रन्नखान् दृष्ट्वा तत्र हिमांशुमण्डलमिलत्प्रेमानुलोम्यादिव । आगत्य स्थिरतारता समभवन्नित्या श्रमाशाऽ श्रमात् प्रीति संस्पृशती सितांशुनलिनस्थानद्वयीसम्भवाम् ॥१॥ यद्वा स्वस्तिश्रिया बोधिविधोर्मृगोऽयं भ्रातुः करक्तेन चिदाग्रहेण । नष्टोऽप्यनुष्टः समतिष्टदिष्टा - र्हदास्यपीयूषमयूखदृष्टैः ॥२॥ वैकुण्ठकण्ठं परिहृत्य स ( ? ) तस्मात् पयोधिपुत्री जिनपादपद्मे । स्थिता तमाधाय मृगं मृगाङ्गः शङ्के बभूवाऽभयदस्ततोऽयम् ॥३॥ श्रियः स्थितेश्चिह्नमिहास्ति हस्ती सिंहासने वाहनमेतदीये । परेऽपि नागाः कमलाऽभिषेक - क्रियानुरागादिह किं भजन्ति ॥४॥ पयोधिपुत्र्या इति सन्निधाने ऽप्यहो ! महीयान् महिमा जिनस्य । यद् गीयते योगिवरैरजस्रं शिवः स्वरूपेण महाव्रतीति ॥५॥ महाव्रतित्वं किमवेत्य सत्या - नुरागयोगादिह पार्वतीयम् । देव्या: स्वरूपात् प्रभुमभ्युपेता विचित्ररूपत्रिदशैः परीता ॥६॥ असह्यवीर्यप्रभयानुविद्धां भयानुविद्धाङ्गभृतां नितान्तम् । रक्षासु दक्षां समवेत्य गौरीं सिंहो मनस्ताल इवाऽत्र तस्थौ ||७|| सिंहोऽद्वितीयः प्रभया द्वितीयः सिंहासनेऽस्य प्रतिमेव रेजे । श्रीवीरलक्ष्मेव निजं सिसक्षुः किमाविरासीदविहार्यधैर्यः ॥८॥ दि (दे) ही महोत्साह इवैष सिंहः स्याद्वाहनं चेज्जिनसेवनेन । तदाऽन्तरिक्षाक्षयमार्गमेन- मुल्लङ्घ्य वेगात् समुपैमि पारम् ॥९॥ इतीव विस्तीर्णसहस्रचञ्चत्करः प्रभाकृत् किमुपाजगाम । भामण्डलस्य च्छलतोऽच्छमूर्तिः सप्ताश्वसंवाहनकर्मखिन्नः ॥१०॥ मन्येऽस्य भूयः प्रसरत्य ( प्र ? ) तापसन्तापतः क्लिश्यतु मैष लोकः । जिनप्रणामे तदसावशोक - व्याजेन किं नन्दननिष्कुटोऽगात् ॥११॥ Jain Education International For Private & Personal Use Only 31 www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102