Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2005
3
"
उपासिका: श्रीगुरुवक्त्रपद्म-श्रुताक्षयस्यन्दमरन्दपानात् । भृङ्गाङ्गनावत् पुरकाननेऽस्मिन् प्रोद्भावयन्ते सुरभिस्वभावम् ॥७४|| यत्रालयः पालयतां यतित्वं क्वचिच्चतुत्यस्रसुवृत्तरूपैः । नानाविमानाकृतिभृद् व्यक्ति स्वस्याश्रयत्वं विबुधेश्वराणाम् ॥५॥ महोदधेः श्रीवसुधावधेर्वा यो देहलीदीप इव प्रकाशी । द्वीपोऽवनीपेन तपोधनानां विभूष्यते श्रीमति तत्र चित्ते ॥७६।।
__ अथ बन्नपुरवर्णनम् ॥ स्वस्तीन्दिरोद्वाहजनाश्रयेऽस्मिन् संस्थानमष्टापदाशाब्दभास्ते । प्रोत्तुङ्गशृङ्गा भगवद्विहारा-स्तदत्र सारिश्रियमाश्रयन्ति ॥७७|| श्रद्धा-परिज्ञान-चरित्ररूपै-रक्षैः [पुरास्कृत्य दिवं शिवं वा । दक्षोऽत्र लोको रमते विहार- सारीषु नानाम्बरचित्ररूपैः ॥७८|| यत्राऽर्हदुच्चैस्तरचैत्यपंक्ति-मुक्तालतावद्वि-लादिदीपे । पुरी स्मिती(तां)भोजदृशः प्रशस्त-तन्मण्डपोत्तुङ्गपयोधरायाः ॥७९॥ यत्राऽर्हतां सुन्दरमन्दिराली, पालीव पुण्याम्बुमहासरस्याः । यां प्राप्य सर्वो भविनां प्रयाति, भवाटवीभ्रान्तिभवः प्रयासः ॥८॥ सूर्याश्मसन्दर्भितभित्तिभागे तापोऽपि सूर्योदय - - - - - | ....... नृत्यद(?)धनवीजनेना-पनीयतेऽर्हद्भवनैरमुष्याः ॥८१॥ विशालसौधोज्ज्वलचन्द्रशाला-विलासिनी काचिदवल्यबोधम् (?) । - - - बिम्बं तदभूत् कलङ्क-स्तदीयनेत्राञ्जनरञ्जनेन ॥८२।। सर्वः सुपर्वोचितवि(वे)षशाली, जनस्तदाच्युतसव(स्सदाऽस्त्युत्सव) सज्जनोऽत्र । शृङ्गारतामेति समग्रपुर्याः चातुर्यसर्वस्वमिवाङ्गसङ्गि ॥८३॥ स्त्रियोऽपि नेपथ्यविशेषभाजो रथ्यासु सानाध्य(थ्य)भृतः स्फुरन्त्यः । हरन्ति चेतांसि दिवापि यूनां स्मराम्बुधेरुत्कलिकास्वरूपा: ॥८४|| अप्रत्नरत्नप्रतिबद्धसौधे दैवात् कथञ्चिद्विजनेऽपि जाते । भुजङ्गसङ्गेऽपि न पांशुलानां स्वाभीष्टसिद्धि प्रतिबिम्बभीतेः ॥८५||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102