Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 62
________________ September-2005 चित्रं विचित्रभेदं यत्कविभिर्बहुधोदितम् । ग्रन्थगौरवभीत्यैव मयेह तदुपेक्षितम् ॥२६-३॥ इति श्रीभट्टगोविन्दसङ्ग्रहीते 'सभ्याभरणे' चित्रमरीचिः । अथ भावगूढम् 'काचित्कान्ता रमणसविधे प्रेषयन्ती करण्डं प्रायोवस्थाकलितमलिख व्यालमस्योपरिष्टात् । गौरीनाथं तदनु चकिता चम्पकं गात्रहेतून् पृच्छत्यार्यान् निपुणधिषणान् मल्लिनाथ: कवीन्द्रः ॥१॥ करण्डस्थपुष्परक्षार्थमेतानलिखदिति भावः ॥१॥ विक्रीय विस्पृष्टमुखेन बाला मालाकृतः कैरवकोरकाणि । विक्रेतुकामा विकचाम्बुजानि चेलाञ्चलेनाऽऽननमावृणोति ॥२॥ विकसितकमलानां मुखचन्द्रदर्शनात् सङ्कोचनभीत्येति भावः ॥२॥ काचित् प्रयुक्ता खलु देवरेण गृहाण शस्त्र व्रज राजमार्गम् । विलोक्य शय्यामिति लज्जिता सा स्मेरानना नम्रमुखीबभूव ॥३॥ शय्यायां तस्याः पुंभावचिह्न दवा(दृष्ट्वा) देवरेणोपहसितेति भावः ॥३॥ प्राचीनस्मृतविरहव्यथातिभीत: काकुत्स्थः कृतकु(कु)तुकाक्षिनिमीललीलः । संपूर्ण(णे)शशिनि चिराय लग्नदृष्टेः प्रेयस्याः स्थगयति लोचने कराभ्याम् ॥४॥ कनकमृगवत् मृगाङ्कमृगमपि याचयिष्यतीति भावः ॥४॥ १. काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डं, सा तन्मूले सभयमलिखत् व्यालमस्योपरिष्टात् । गौरीनाथं पवनतनयं चम्पकं चाऽस्य भावं, पृच्छत्यार्यान् प्रति कथमिदं मल्लिनाथ: कवीन्द्रः ॥ इति सु.र.भा. १९१/८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102