Book Title: Anusandhan 2005 09 SrNo 33
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ September-2005 अथाऽन्तापिका रवे: कवेः किं समरस्य सारं 'कृषेर्भयं किं *प्रमुषन्ति 5भृङ्गाः । 6खलाद् भयं विष्णुपदं च केषां भागीरथीतीरसमाश्रितानाम् ॥४॥ अथ बहिर्लापिकामित्रामन्त्रय मञ्जुजीवितसमां दक्षक्रतू कीदृशौ कीदृक्षौ मरुकीकंटो(कटौ) शिखिरुतिः का काममामन्त्रय । कौ नक्तं विरहातुरौ चरति कस्तोये मिलित्वा भृशं लिप्यभ्यासपरायणा गुरुगृहे किं वा पठन्त्यर्भकाः ॥५॥ क का कि की कु कू के कै को कौ कं कः - कालिदासस्य ॥५॥ त्रय्याद्याः के धनं किं भवति मृगमदे को गुणः काऽथ माया केऽगाधाः किं तृषाणां जलमलघुसुखं योषितां केन दीनः । कः के देवारयः किं निमिपुरमदितिब्रूहि केषां जनेत्री क्व काको वैष्णवास्ये बुध ! वसति जपो मध्यवर्णैः पदानाम् ॥६॥ त्रय्याद्याः- ओ ओ ओ (ॐ) । धनं किं - कनकम् । मृगमदे को गुणः- आमोदः । माया का - शम्भवा । अगाधाः के- सागराः । तृषाणां जलं किं - जीवनम् । योषितां केन सुखं - कान्तेन । दीनः कः-प्रवासी। देवारयः के - असुराः । निमिपुरं किं - विदेहः । अदितिः केषां जनेत्रीदेवानाम् । काकः क्व गच्छति-वियति । वैष्णवास्ये पदानां मध्यवर्णैः कृत्वा को जपो वसति - ॐ कारादि वियत्पर्यन्तानां पदानां मध्यवर्णे उपात्ते "ॐ नमो भगवते वासुदेवाये"ति द्वादशा(शव)ो विष्णुमन्त्रो भवति ॥६॥ २. १. रवेः भा, २. कवेः कान्तिः, ३. समरस्य रथी-योद्धा, ४. कृषेर्भयम्-ईति: अनावृष्ट्यादिः, *'किं किमुशन्ति' इति सुभाषितरत्नभाण्डागारे (सु.र.भा.), ५. भृङ्गा रसमुशन्ति वाञ्छन्ति, ६. खलाद् भयम्- आश्रितानाम्, ७. विष्णुपदं च भागीरथीतीरसमाश्रितानाम् - इति सु.र.भा. || ३. सु.र.भा. पृ. १९७/श्लो. २१; शार्ङ्गधरपद्धतौ ५५४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102