Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 50
________________ 45 उपवासत्रयमेव तु संप्रति आ(त्या)ज्ञाप [य] त्येषः ॥ दुःषमायां संयमस्य दुःपाल्यत्वादिति ॥२९६।। घृतवाची भिषक्तन्त्रे बोधितो 'मिथुन' ध्वनिः ॥२९७।। श्रूयन्ते च परावर्ताः समस्यायामनेकधा ॥ रुचिवैचित्र्यादनुभूयते ककारादौ खकारादीनामन्यतमत्वं तैस्तैरिति ।।२९८।। सर्वासंख्यसमुद्राणां यावन्तो जलबिन्दवः । तदनन्तगुणार्थं स्या-नूनमेकैकमक्षरम् ॥ वस्तूनामानन्त्या माने(दे)वम् ॥२९९।। स्यात्पदस्यैकदेशेऽपि समुदायोपकारिता । नैकान्तभिन्नादेशा हि वपुषांश्च(चू)लिकेव यत् ॥ केली-कुशल-कल्याण-कलादिः कादिमान् गणः । विश्ववर्ती समस्तोऽपि समस्यस्त्वेकशेषतः ॥ ततः सांकेतितत्वं स्याद् विभक्तिविनिवारकम् । इत्यर्थानयनोद्योगः सर्वत्रापि विधीयताम् ॥ __ अनेकान्ततादूतति(दूती)संकेतः ॥३००। चत्वारोऽक्षरनिक्षेपाः प्रोदिताः पूर्वपाठिभिः । नामतः स्थापनातश्च द्रव्यतो भावतस्तथा ॥ एतैः सर्वस्यापि व्याप्तत्वात् ॥३०१॥ द्रव्यार्थतस्त्रयो बोध्या-स्तुरीयः पर्ययार्थतः ॥३०२।। द्रव्ये पर्ययगौणत्वं पर्यये द्रव्यगौणता ॥३०३।। विगौणं नैव मुख्यं स्या-न गौणं मुख्यवर्जितम् । उपचारानुगत्यैव गौणान्मुख्येऽतिरिक्तता ॥३०४।। अकारोऽयमिकारादेः सर्वथैवाऽऽदिमान् यदि । स जातो जायमानो वाऽगातां नामनि नाऽथवा ॥ . इष्टः प्रथमपक्षश्चेत् सामान्याद्वा विशेषतः । । नैकवति तु सामान्यं विशेषे वैरमन्यतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140