Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२४
३१
२५
77
Jain Education International
२६
सुमित्रानन्दनानामपि अशत्रुघ्नानाम्, क्षमाकाशानां प्रशस्यवल्लभकलितानाम्, प्रेंज्ञाप्रकर्षतोषितवाचस्पति - तिलकानाम्, सौंधुहंसानां सुमौक्तिकफलचञ्चूनामभिरामसन्मानसम्पदं गतानाम्, जयन्तं मेरुचितं सदाचारदक्षं
२७
(२४) सुमित्रविजयस्य आनन्दसाधनानाम्, पक्षे सुमित्राया दशरथ भार्याया नन्दनानां पुत्राणामपि । (२५) शत्रुघ्ननामक - सुमित्राभव - दशरथसुतभिन्नानाम् । विरोधपरिहारे शत्रुवधप्रवृत्तव्यतिरिक्तानाम् । (२६) क्षमया क्षमागुणेन काशन्ते प्रकाशन्त इत्यचि क्षमाकाशास्तेषां तथा, पक्षे क्षमा- पृथ्वी आकाशंगगनं तयोरिव । (२७) प्रशंसनीयवल्लभविजयसहितानाम् । पृथ्वीगगनपक्षे प्रकृष्टैर्महापरिमाणैः शस्यैः शसयोरैक्यात् सस्यैर्धान्यरूपै वल्लभैर्नक्षत्रैः क्रमेण सहितानाम् । (२८) प्रज्ञाप्रकर्षेण तोषिता वाचस्पतितिलकाः प्राज्ञशिरोमणयो यैः, यद्वा तोषितौ तिलकविजयवाचस्पतिविजयौ यैस्तेषां; तथा विचक्षणत्वेनार्च्यत्वविवक्षया वाचस्पतिशब्दस्य प्राग्निपातः । (२९) साधुस आत्मा येषां तेषां तथा, यद्वा साधुषु हंसा इव साधुहंसा उत्तमसाधव इत्यर्थः, तेषां तथा, पक्षे राजहंसानामिव । (३०) शोभनानि यानि मौक्तिकफलानि मोक्षफलानि तैः, यद्वा शोभनो यो मौक्तिको मौक्तिका मोति ) विजयस्तस्य फलैः सत्प्रयोजनैः विदितानाम् । विद्याचञ्चवदत्र चञ्चप्रत्ययः, राजहंसपक्षे शोभनानि मौक्तिकफलानि मुक्ताफलानि यत्र तथाविधाश्चञ्चवो येषां तेषां तथा । (३१) अभिरामा मनोहरा या सन्मानसम्पद् साक्षरकृतबहुमानविभूतिः, तां तथा यद्वा अभियुक्तो यो रामो रामविजयस्तेन सहितो यः सन्मानो बहुमानयुक्तः सम्पद् सम्पद्विजयस्तं तथा, राजहंसपक्षे अभिरामं मनोहरं सत् उत्तमं मानसं देवसरोवररूपं पदं स्थानं गतानां प्राप्तानाम् । (३२) जयं विजयं तं जगत्प्रसिद्धं यद्वा जयन्तविजयम् । (३३) मे रुचितमभिप्रेतं, मेरुवन्निचितं मेरुविजयसहितं च । (३४) सदाचारे प्रचारे दक्षं निपुणं सदाचारयुक्तं दक्षविजयं च दधानानाम् ।
"
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140