Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४२
निरञ्जनशुभरत्नप्रभोद्योतलक्ष्मीविद्यापरमप्रभाधिकस्वयम्प्रभोल्लासिनाम्, सुखास्पदानां सूर्यादिकलाधरसुमङ्गलबुधेज्यकविमतल्लिकामन्दचरणग्रहसाधुसेवितानाम् । चेतनचिन्तामणीनां मानवकामगवीनां जङ्गमकल्पतरूणां तत्र भवतां शुभवतां भवतामकम्पानुकम्पासम्पाततो वयं पञ्चापि कुशलिनः । नानाचरणपचरणबहुलताऽपाकृतसंतापातः सन्निधानोद्यानावनितः प्रस्थितोऽपि भवदीयबाहुच्छायापरिगृहीततया नानाविधाश्चर्यनिधानानि मेदिनीदलानि विलोक्य तत्र तत्र जिनेन्द्रपादांश्च प्रणम्य सुखेनात्रागतवान् ।
४५
४३
79
(४२) निरञ्जनं कलङ्करहितं शुभं यद् रत्नं तस्य यः प्रभोद्योतः किरणप्रकाशस्तस्य सकाशात्, एवं लक्ष्मीविद्याया द्रव्योपार्जनकलाया या परमप्रभा परमविकासस्तस्याः सकाशात् अधिका या स्वयंप्रभा आत्मनैव न तु बाह्यभावेन प्रकाशनीया प्रभा तदुल्लासिनाम्, यद्वा निरञ्जनविजयस्य शुभंकरविजयस्य रत्नप्रभविजयस्य उद्योतविजयस्य लक्ष्मीप्रभविजयस्य विद्याप्रभविजयस्य परमप्रभविजयाधिकस्य स्वयम्प्रभविजयस्य च उल्लासिनां हर्षदायकानाम् । (४३) सुखानां दुःख-प्रतिकूलानाम् आस्पदानाम् पक्षे शोभनं खं गगनं तद्रूपास्पदानामिव । (४४) सूरय आदयो येषां पक्षे सूर्य आदि र्येषां ते सूर्यादयः; कलाधरा विज्ञानविशेषकुशलाः, पक्षे कलाधरश्चन्द्रः; शोभनानि मङ्गलानि यैर्येषां वा, पक्षे शोभनो मङ्गलो भौमो यत्र ते सुमङ्गलाः; बुधैरिज्याः पूज्याः, पक्षे बुधगुरू; कविमतल्लिका उत्तमकवयः, पक्षे उत्तमशुक्रः; अमन्दोऽमन्दस्य वा चरणस्य चारित्रस्य ग्रहो ग्रहणं येषां ते अमन्दचरणग्रहाः, एवंविधा ये साधवो मुनिजनास्तैः सेवितानाम्, पक्षे मन्दचरणः शनैश्चरः; ग्रहा उक्तस्वरूपा नव खेटास्तैः साधु सम्यक् सेवितानाम् । (४५) नानाविधा ये चरणपा मुनिवरास्तेषां चरणस्य चारित्रस्य या बहुलता अधिकता तया अपाकृतः सन्तापो यत्र ततः, पक्षे नानाविधा ये चरणपा वृक्षास्तेषां चरणैः शाखाभिः बहुलताभिरनल्पवल्लीभिः अपाकृतः सन्तापो यया
ततः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140