Book Title: Anusandhan 1998 00 SrNo 12
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 83
________________ 78 ३५ ३७ दधानानाम् , सदायशोभदङ्गाणां सुदैवधाम्नाम् , हृदयङ्गमां सच्चिदानन्दकनकमालामादधानानाम् , सुशीलजयपुण्यधुरन्धरविमलविद्यामोक्षनन्दप्रियमहोदयगुणसाधुजनासे वितपादपङ्केरूहाणाम्, हिमांशुकलानां शिवविशुद्धानन्दप्रेमकुमुदविबोधनकृताम् , (३५) आयश्च शोभा च आयशोभम् । सतः प्रधानस्य आयशोभस्य द्रङ्गाणां पत्तनानामाधाराणा-मित्यर्थः, यद्वा सदा यशांसि च भद्राणि च यशोभद्रम् , यद्वा यशोभद्रं यशोभद्रविजयं गतानाम् । पक्षे सद् आयशोभं यत्र तादृशानां द्राणां पत्तनानामिव । (३६) शोभनं दैवं भाग्यं धाम तेजो येषां तेषां तथा, यद्वा शोभनानां दैवानां देवविजयसम्बन्धिनां धाम्नामास्पदानाम् , नगरपक्षे शोभनानि दैवधामानि नृपसत्कमन्दिराणि देवतासत्कमन्दिराणि वा यत्र तादृशानाम् । (३७) हृदयदेशगतां मनोहरां वा। (३८) सन् यश्चिदानन्दो ज्ञानानन्दः स एव कनकमाला सुवर्णमयो हार: तां तथा, यद्वा पदैकदेशे पदसमुदायोपचारात् सन्त उत्तमा ये चिदानन्दविजयानन्दविजय-कनकविजयास्तेषां मालां पङ्क्ति समूहमिति यावत् । (३९) शोभनेन शीलेन जयेन पुण्येन च धुरन्धराः सुशीलनयपुण्यधुरन्धराः, विमलो विद्याया मोक्षस्य च य आनन्दः स प्रियो येषां ते विमलविद्यामोक्षानन्दप्रियाः, महोदया गुणा येषां ते महोदयगुणाः एवंविधा ये साधुजना उत्तमजनास्तैः, यद्वा सुशीलविजयेन जयानन्दविजयेन पुण्यविजयेन धुरन्धरविजयेन विमलानन्दविजयेन विद्यानन्दविजयेन मोक्षानन्दविजयेन प्रियङ्करविजयेन महोदयविजयेन गुणचन्द्रविजयेन च मुनिजनेन, आसेविते पादपङ्केरुहे येषां तेषां तथा । (४०) हिमांशुश्चन्द्रस्तद्वत् कलानां मनोज्ञानाम्, यद्वा हिमांशुना हिमांशुविजयेन कलानां मनोज्ञानाम्, पक्षे हिमांशोश्चन्द्रस्य याः कलास्तासामिव । (४१) शिवस्य मोक्षस्य विशुद्धो य आनन्दः तत्र यत् प्रेम तदेव कुमुदं चन्द्रविकासि कमलं तस्य विबोधनकृतां विकासकानाम्, यद्वा शिवानन्दविजय-विशुद्धानन्दविजय-प्रेमविजय-कुमुदविजयेभ्यो विशिष्टबोधदायकानाम् । चन्द्रकलापक्षे शिवस्य महादेवस्य विशुद्धो य आनन्दः प्रेम च ते एव कुमुदे तयोः विबोधनकृतां विकासकानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140