________________
78
३५
३७
दधानानाम् , सदायशोभदङ्गाणां सुदैवधाम्नाम् , हृदयङ्गमां सच्चिदानन्दकनकमालामादधानानाम् , सुशीलजयपुण्यधुरन्धरविमलविद्यामोक्षनन्दप्रियमहोदयगुणसाधुजनासे वितपादपङ्केरूहाणाम्, हिमांशुकलानां शिवविशुद्धानन्दप्रेमकुमुदविबोधनकृताम् , (३५) आयश्च शोभा च आयशोभम् । सतः प्रधानस्य आयशोभस्य द्रङ्गाणां पत्तनानामाधाराणा-मित्यर्थः, यद्वा सदा यशांसि च भद्राणि च यशोभद्रम् , यद्वा यशोभद्रं यशोभद्रविजयं गतानाम् । पक्षे सद् आयशोभं यत्र तादृशानां द्राणां पत्तनानामिव । (३६) शोभनं दैवं भाग्यं धाम तेजो येषां तेषां तथा, यद्वा शोभनानां दैवानां देवविजयसम्बन्धिनां धाम्नामास्पदानाम् , नगरपक्षे शोभनानि दैवधामानि नृपसत्कमन्दिराणि देवतासत्कमन्दिराणि वा यत्र तादृशानाम् । (३७) हृदयदेशगतां मनोहरां वा। (३८) सन् यश्चिदानन्दो ज्ञानानन्दः स एव कनकमाला सुवर्णमयो हार: तां तथा, यद्वा पदैकदेशे पदसमुदायोपचारात् सन्त उत्तमा ये चिदानन्दविजयानन्दविजय-कनकविजयास्तेषां मालां पङ्क्ति समूहमिति यावत् । (३९) शोभनेन शीलेन जयेन पुण्येन च धुरन्धराः सुशीलनयपुण्यधुरन्धराः, विमलो विद्याया मोक्षस्य च य आनन्दः स प्रियो येषां ते विमलविद्यामोक्षानन्दप्रियाः, महोदया गुणा येषां ते महोदयगुणाः एवंविधा ये साधुजना उत्तमजनास्तैः, यद्वा सुशीलविजयेन जयानन्दविजयेन पुण्यविजयेन धुरन्धरविजयेन विमलानन्दविजयेन विद्यानन्दविजयेन मोक्षानन्दविजयेन प्रियङ्करविजयेन महोदयविजयेन गुणचन्द्रविजयेन च मुनिजनेन, आसेविते पादपङ्केरुहे येषां तेषां तथा । (४०) हिमांशुश्चन्द्रस्तद्वत् कलानां मनोज्ञानाम्, यद्वा हिमांशुना हिमांशुविजयेन कलानां मनोज्ञानाम्, पक्षे हिमांशोश्चन्द्रस्य याः कलास्तासामिव । (४१) शिवस्य मोक्षस्य विशुद्धो य आनन्दः तत्र यत् प्रेम तदेव कुमुदं चन्द्रविकासि कमलं तस्य विबोधनकृतां विकासकानाम्, यद्वा शिवानन्दविजय-विशुद्धानन्दविजय-प्रेमविजय-कुमुदविजयेभ्यो विशिष्टबोधदायकानाम् । चन्द्रकलापक्षे शिवस्य महादेवस्य विशुद्धो य आनन्दः प्रेम च ते एव कुमुदे तयोः विबोधनकृतां विकासकानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org