Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 189
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । द्वितीयः पर्यायः । नन्वत्र समुच्चयालङ्कारो वक्ष्यत इत्येतदर्थमपि क्रमेणेति योज्यम् । अत एव 'गुणक्रियायौगपद्यं समुच्चय' इति समुच्चयलक्षणे यौगपद्यग्रहणम् । अत एव क्रमाश्रयणात् पर्याय इत्यन्वर्थमभिधानम् । विनिमयाभावात् परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपचेति द्विविधः । तत्र द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणं - " नन्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥” १६९ मित्युक्तम् । एतदर्थमपीति । अपिशब्देन द्वितीय पर्यायेऽपि क्रमेणेत्येतलक्षणानुप्रवेशित्वेन घटनीयमित्याह । अत एव पर्यायव्यावृत्तिहेतोरेव । अन्वर्थमिति । यौगपद्याभावलक्षणस्यार्थस्यानुगमात् । नन्वत्र कस्यचि - दपगमे कस्यचिदुपगमो भवति । परिवृत्तावपि 'किमित्यपास्ये’त्यादावामरणस्य वल्कलादीनामनेकेषामाधेयानां पार्वतीलक्षण एकस्मिन्नाधारे क्रमेण वृत्तिर्दृश्यते । तदस्य तस्याः को भेद इत्याशङ्कयाह -विनिमयाभावादिति । विनिमयो नाम कस्यचित् परित्यागेन कस्यचित् स्वीकारः । तत्र च 'निशास्वि' त्यादावभिसारिकादिपरित्यागेन शिवादिस्वीकार इत्येवंरूपस्यार्थस्याविवक्षितत्वाद् विनिमयाभावः । अनेकः आधाराधेयलक्षणः । एषां चासंहतसंहतत्वे उपात्तद्रव्यविशेषाधाराधेयत्वव्यतिरेकेणैकोपाध्यनवच्छेदावच्छेदाभ्यां द्रष्टव्ये | आधाराधेयगतमिति । प्रथमे पर्याये आधारगतं द्वितीये आधेयगतम् । आश्रयस्थितिराश्रयमर्यादा । उत्तरोत्तरविशिष्टपदा यथोत्तरविशिष्टस्थाना । अत्र हृदयकण्ठवाचामुपर्युपरि वृत्तित्वादुत्तरोत्तरवै - १. 'रो भे', २. 'ण यथा - 'न' क. ख. पाठः. ३. 'णानेको' ख. पाठ:. X

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280