Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 245
________________ निरूपणम् । सव्याख्यालङ्कारसर्वस्वोपेतम् । २२५ अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुकोपमा । नरकप्रतिबन्धिनीति श्लिष्टविशेषणसमुत्थोपमा प्रतिभोत्पत्तिहेतुः श्लेपश्चैकस्मिन्नेव शब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात् । अत्र च यथार्थश्लेषेण सहोपमायाः सङ्करः, तथा शब्दश्लेषेणापि सह दृश्यते । यथा - "सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये । उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥" अत्र पयसीव नाट्यगृहे रमन्त इत्येतावतैव समुचितोपमा निष्पन्ना सत्पुष्करद्योतितरङ्गेति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे सङ्कीर्णा । शब्दालङ्कारयोः पुनरेकवाचकानुप्रवेशेन सङ्करः पूर्वमुदाहृतो 'राजति तटीयमि'त्यादिना । एकवाचकानुप्रवेशेनैव चात्र सङ्कीर्णत्वम् । अत एवं पर्यवस्थितमन्याअत्र मुरारिनिर्गतेत्यादिनोपमायाः क्रियासाम्यलाभाच्छ्लेषनरपेक्ष्येणोत्थितत्वान्न प्रतिभोत्पत्तिमात्रम् , अपित्वलङ्कारान्तरतयावस्थानमित्याह -तस्येत्यादि । उभयोरुपमाश्लेषयोस्तेनैव शब्देन द्योतितत्वात् । अर्थश्लेषेणेति । नरकप्रतिबन्धिनीत्यत्र स्वरप्रयत्नाभेदादर्थश्लेषत्वम् । सत्पुष्करेत्यादि । सद्भिर्वाद्यमुखैोतितः शोभितः रङ्गो यस्मिन्निति नाट्यगृहे, सत्पुकरद्योतिनः सत्कमलद्योतनशीलाः तरङ्गा यस्मिन्निति वापीपयसि । निपन्नेति । रतिक्रियाधिकरणत्वात्मना साधर्म्यण श्लेषनिरपेक्षनिष्पत्तेः पूर्ववदलङ्कारतयावस्थिता । शब्दश्लेषेणेति । द्योतितरङ्गेत्यत्र पदभङ्गभेदेन भिन्नविरामपाठात् प्रयत्नभेदेन शब्दश्लेषत्वम् । अत्र शब्दश्लेषस्योपमायाश्च दूयोरप्यालङ्कारत्वमुद्भटमतानुसारेण । अत एवेति । अर्थालङ्कारयोः १. 'पत्ति', २. 'नि', ३. 'पि ', ४. 'ते। स', ५. 'बद्धमृ' क. ख. पाठः. ६. 'स्थि', ७. 'सम्पन्ना ग. पाठः. ८. 'दौ । अत्र ए', ९. 'न स' क. ख. पाठः, १० 'बं व्यव', ११. 'तत्वमप्यन्यभा' ग. पाठः. १२. क्रीडाधि' ख. ग. पाठः. EE

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280