________________
निरूपणम् । सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२२५ अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुकोपमा । नरकप्रतिबन्धिनीति श्लिष्टविशेषणसमुत्थोपमा प्रतिभोत्पत्तिहेतुः श्लेपश्चैकस्मिन्नेव शब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात् । अत्र च यथार्थश्लेषेण सहोपमायाः सङ्करः, तथा शब्दश्लेषेणापि सह दृश्यते । यथा -
"सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये ।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥" अत्र पयसीव नाट्यगृहे रमन्त इत्येतावतैव समुचितोपमा निष्पन्ना सत्पुष्करद्योतितरङ्गेति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे सङ्कीर्णा । शब्दालङ्कारयोः पुनरेकवाचकानुप्रवेशेन सङ्करः पूर्वमुदाहृतो 'राजति तटीयमि'त्यादिना । एकवाचकानुप्रवेशेनैव चात्र सङ्कीर्णत्वम् । अत एवं पर्यवस्थितमन्याअत्र मुरारिनिर्गतेत्यादिनोपमायाः क्रियासाम्यलाभाच्छ्लेषनरपेक्ष्येणोत्थितत्वान्न प्रतिभोत्पत्तिमात्रम् , अपित्वलङ्कारान्तरतयावस्थानमित्याह -तस्येत्यादि । उभयोरुपमाश्लेषयोस्तेनैव शब्देन द्योतितत्वात् । अर्थश्लेषेणेति । नरकप्रतिबन्धिनीत्यत्र स्वरप्रयत्नाभेदादर्थश्लेषत्वम् । सत्पुष्करेत्यादि । सद्भिर्वाद्यमुखैोतितः शोभितः रङ्गो यस्मिन्निति नाट्यगृहे, सत्पुकरद्योतिनः सत्कमलद्योतनशीलाः तरङ्गा यस्मिन्निति वापीपयसि । निपन्नेति । रतिक्रियाधिकरणत्वात्मना साधर्म्यण श्लेषनिरपेक्षनिष्पत्तेः पूर्ववदलङ्कारतयावस्थिता । शब्दश्लेषेणेति । द्योतितरङ्गेत्यत्र पदभङ्गभेदेन भिन्नविरामपाठात् प्रयत्नभेदेन शब्दश्लेषत्वम् । अत्र शब्दश्लेषस्योपमायाश्च दूयोरप्यालङ्कारत्वमुद्भटमतानुसारेण । अत एवेति । अर्थालङ्कारयोः
१. 'पत्ति', २. 'नि', ३. 'पि ', ४. 'ते। स', ५. 'बद्धमृ' क. ख. पाठः. ६. 'स्थि', ७. 'सम्पन्ना ग. पाठः. ८. 'दौ । अत्र ए', ९. 'न स' क. ख. पाठः, १० 'बं व्यव', ११. 'तत्वमप्यन्यभा' ग. पाठः. १२. क्रीडाधि' ख. ग. पाठः.
EE