________________
२२६
अलङ्कारसूत्रं
[उपसंहारः। नुभाषितमप्रयोजकं, तुल्यजातीययोरप्यलङ्कारयोरेकवाचकानुप्रवेशसंभवात् । शब्दार्थवृत्त्यलङ्कारस्तु भट्टोद्भटेन प्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव सङ्कर इहोक्तः॥
इदानीमुपसंहारसूत्रम् -- एवमेते शब्दार्थोभयालङ्काराः संक्षेपतः सूत्रिताः॥८६॥
एवमिति पूर्वोक्तंप्रकारपरामर्शः। एत इति प्रक्रान्तशब्दालङ्कारयोश्च पृथक् पृथगेकवाचकानुप्रवेशदर्शनात् काव्यप्रकाशकारादिभिर्विजातीययोः शब्दार्थालङ्कारयोस्तृतीयसङ्करस्य वचनमप्रयोजकम् । सम्भवादिति । सम्भवश्वोदाहरणप्रदर्शनेन दर्शित एव । अनुदाहृतोऽपि शब्दार्थालङ्कारयोरयं सङ्करो ग्रन्थकृतोऽभिमत एव, तुल्यजातीययोरपीत्यपिशब्दप्रयोगात् । अनन्वयेन सहास्य सङ्कर इत्युक्तेश्च । स यथा
न तुलितकुलशैला बाहवः सिन्धुरा वा
न च हसितसमीराः सप्तयः सायका वा। कृतरुषि यदुनाथ ! त्वय्यनीके नृपाणां . परमजनि परेषां जैत्रमस्त्रं प्रणामः॥ अत्र प्रणामस्य प्रस्तुतयुद्धोपयोगिसमानाधिकरणजैत्रास्त्रलक्षणारोप्यमाणत्वेन परिणतत्वादुत्थितेन परिणामेनानुगृहीताया अप्रश्नपूर्विकायाः शब्दोपात्तबाह्वादिवर्जनीयायाः परिसङ्खयायाः परमजनि परेषामित्येकधा समुदायसादृश्यलक्षणेन वृत्त्यनुप्रासेन सहैकरूपे पदसमुदायेऽनुप्रवेशः । सूक्ष्मेक्षिकायां तु पुनरस्य सत्पुष्करेत्येतदप्युदाहरणम् । भट्टोद्भटेनेति ।
"शब्दार्थवृत्त्यलङ्कारा वाक्य एकत्र भाविनः । - सङ्करो वा" इत्येकवाक्ये भिन्नदेशावस्थितत्वेन लक्षितः । संसृष्टौ उभयसंसृष्टिलक्षणायाम् । त्रिप्रकार एव, न तूद्भटवचतुष्प्रकारः ॥
१. 'लङ्कारसङ्कर', २. 'टप' ग. पारः. ३. 'रः स', ४. 'क्तप' क. ख. पाठः. ५. 'त्यायुक्ते' ख. ग. पाठः.