________________
उपसंहारः ।]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२२७
1
स्वरूपनिर्देशः । सूत्रिता इति । अलङ्कारसूत्रैः सूचिताः संक्षेपेण प्रतिपादिताः । तत्र शब्दालङ्कारा यमकादयः । अर्थालङ्कारा उपमादयेः । उभयालङ्कारा लाटानुप्रासादयः । संसृष्टिसङ्घैरप्रकारौ कौचिर्दलङ्कारौ । तद्रूपत्वात् । लोकवदाश्रयाश्रयि
सूत्रिता इत्यस्य व्याख्या अलङ्कारसूत्रैः सूचिता' इति । सूचिता इत्येतदपि लोकप्रसिद्ध्या सूत्रितशब्दार्थत्वेनोक्तम् । स्वकण्ठेनानुक्तिशङ्कानिरासाय सूत्रस्थस्य सङ्क्षेपत इति पदस्यान्वयप्रदर्शनमुखेन व्याचष्टे - सङ्क्षेपेण प्रतिपादिता इति । पुनरुक्तवदाभासादौ तत्तद्भेदाप्रदर्शनात् । यमकादय इत्यादि । सर्वत्रादिशब्दः प्रकारवाची । व्यवस्थावाचित्वे हि छेकानुप्रासवृत्त्यनुप्रासयोः शब्दालङ्कारत्वं पुनरुक्तवदाभासस्यार्थालङ्कारत्वं च न स्यात् । स्या ( च वि ? च्चापि ) चित्रस्योभयालङ्कारत्वम् । लाटानुप्रासादय इतिवच्छेकानुप्रासादय इत्यवचनमादिशब्दस्य व्यवस्थावाचित्वबुद्ध्या प्रदेशान्तरलक्षितस्य शब्दश्लेषादेः शब्दालङ्कारस्याग्रहणशङ्का मा भूदिति । अन्ये तु यमकस्य शब्दाश्रयत्वं स्फुटतरम् । अनुप्रासो हि रसादिलक्षणार्थानुगुण्यमप्यपेक्षते । इह तु न कथञ्चिदप्यर्थापेक्षेति यमकादय इत्युक्तमित्याहुः । एवमुपमादय इत्यपि वचनम् अर्थाश्रयत्वस्य स्फुटत्वाद् विप्रतिपत्तिनिरासाय । लाटानुप्रासादय इत्यत्रादिशब्देन श्लिष्टरम्परितादयो गृह्यन्ते । तेषां च शब्दस्यार्थस्य च वैचित्र्यमुत्कटतया प्रतिभासत इति वस्तुस्थितिमनपेक्ष्य शब्दालङ्कारमध्येऽर्थालङ्कारमध्ये च लक्षणं विहितम् । केचित्तु आदिशब्देन शब्दालङ्कारमर्थालङ्कारं चाश्रितयोः संसृष्टिसङ्करप्रकारयोर्ग्रहणमित्याहुः । कौचिदिति । अवान्तरभेदपरिहाणेन सामान्यरूपेण शब्दार्थोभयवृत्तित्वेन निर्देष्टुमशक्यौ । अथवा कौचिदलङ्कारविषयौ, न ध्वनिगुणीभूतव्यङ्ग्यविषयौ । तद्रूपत्वादिति । पृथगलङ्कारवदलङ्कारसंयोगेऽपि शोभाविशेषोत्पत्तेः । एवं शब्दालङ्कारादिव्यवस्था आश्रयाश्रयिभावस्यैव प्रयोजकत्वे सिध्यति, न त्वन्वयव्यतिरेकयोरिति स एवाश्रयणीय इत्याह – लोकवदित्यादि । श्रौतोपमादेरित्यादिशब्देन
१. ‘यः । ला’, २. ‘यः उभयालङ्काराः । सं', ३. 'ङ्करौं', ४. 'दुभयाल' क. ७. 'न च वा' ख. पाठः पाठः. ५. 'त्येत' ख. ग. पाठः ६. 'ह न तु क क. पाठः.