________________
२२८ . अलकारसूत्रं
[spiहारः । भावश्च तदलङ्कारत्वंनिबन्धनम्। अन्वयव्यतिरेकौ तु तत्कायत्वे प्रयोजकौ, न तदलङ्कारत्वे । तदलङ्कारत्वप्रयोजकरने तु श्रौतोपमादेरपि शब्दालङ्कारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावे चिरन्तनमतानुस्मृतिः । . इति मख़ुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥
समाप्तं चेदमलङ्कारसर्वस्वम् ।
वाच्योत्प्रेक्षादेर्ग्रहणम् । तत्रेवादिशब्दान्वयव्यतिरेकानुविधानदर्शनात् । अन्वयव्यतिरेकपक्षे न परं युक्तिविरोधः, उद्भटादिपूर्वाचार्यविरोधोऽपि । तदुभयमपि स्वमते नास्तीत्याह - तस्मादिति । सुकविमुखालङ्कारमित्यनेन नैसर्गिकशक्तिमतामेवालङ्कारज्ञानं कवित्वे गुणातिशयमादधातीति सिद्धम् ॥
मख़ुकनिबन्धविवृतौ विहितायामिह समुद्रबन्धेन । गुणलेशमात्रमित्रैभविषीष्टादोषदर्शिभिः सद्भिः ॥
इत्यलङ्कारसर्वस्वव्याख्या सम्पूर्णा ॥ ..
शुभं भूयात् ॥
१. 'व एव त', २. 'त्वे', ३. वे श्रौ', ४. 'नैव चि' क. पाठः. ५. 'मृतिः । समाप्तं चेदमलङ्कारसर्वस्वम् । कृती राजानकश्रीरुचकस्य । शिवम् । इ' ग. पाठः,