________________
अलङ्कारसूत्रं
[सवर
४
कदाचिदर्थसिद्धिः। न ह्यौपम्येनालङ्कारेण प्रक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात् । विपर्ययस्तु दुष्ट एव । यथा - 'येनेन्दुर्दहनो विषं मलयजो हारः कुठारायते' इति । तस्मात् प्रकृते सामान्यप्रयोग उपमापरिग्रहे बाधक इति मयूरव्यंसकादेराकृतिगणत्वाद् रूपकसमासाश्रयेण रूपकमेव बोद्धव्यम् । एवं 'भाष्याब्धिः क्वातिगम्भीर' इत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु सन्देहसङ्करः । यथोदाहृतम् । तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः । यत्रैकस्मिन् वाचas कालङ्कारौंनुप्रवेशो न च सन्देहो नाप्यङ्गाङ्गि
२२४
भावः । यथा -
-
" मुरारिनिर्गता नूनं नरकप्रतिबन्धिनी । तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥ "
कस्य परिग्रहे साधकमस्तीत्याह – उत्तरोत्तरेति । विपर्ययः रूपकं प्रक्रम्योपमाया निर्वाहः । एवं भाष्याब्धीत्यादि । गम्भीर इति सामान्यप्रयोगेण बाधकेनाब्धिरिव भाष्यमित्युपमां हित्वा भाष्यमेवाब्धिरिति रूपकमेवाश्रयणीयमित्यर्थः । यथोदाहृतमिति । 'यः कौमारहर' इत्यादिना । यत्रैकस्मिन्नित्यादि । वाच्यत्वेन शोभाजनकत्वेन वानेकोऽलङ्कार एकमे करूपं शब्दं शब्दसमुदायं वाश्रयतीत्यर्थः । न त्वत्रैकशब्दः सङ्ख्यावचनः । तथा हि सति 'काशाः काशा इवे' ति 'दानवरासे' त्यादौ चैकरूपानेकशब्दाश्रययोर्लाटानुप्रासानन्वययोर्यमकानुलोमप्रतिलोमयोश्चैकवाचकानुप्रवेशवचनं व्याहन्येत । मुरारीत्यादि । नरकं भौमं निरयं च प्रतिबन्धुं शीलवती ।
४. 'ते । त', ५. 'यणे रू', ८. 'ति । न' ख. ग. पाठः.
१. 'ह्येकेना', २. 'रप्र', ३. 'ण उपक्रा', 'तः । तृ' क. ख. पाठः. ७. 'र' ग. पाठः.