________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२२३ त्वात् । उपमायास्तु न बाधकं, शङ्करेऽप्युपचरितस्य तस्य सद्भावात् । यथा वा"एतान्यवन्तीश्वरपारिजातजातानि तागधिपपाण्डराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥" अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहे साधकं प्र. माणम् । बाधकं यथा---
"शरदीव प्रसर्पन्त्यां तस्य कोदण्डटङ्कृतौ ।
विनिद्रजम्भितहरिविन्ध्योदधिरजायत ॥" अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरित साधारणं विशेषणं बाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (२. १. ५६) इति वचनादुपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्याद् रूपकपरिग्रहः । नहि शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्यौपम्येन रूपकपरिग्रह इति । दिश एव वध्व इत्यायेवंरूपे । वध्व इव दिश इत्याधुपमायास्तु न बाधकं, शोभावहत्वादिमात्रोपचारेण दिग्यशःसम्बन्धेऽप्यनुपपत्तिविरहात् । झरदीवेत्यादि । हरिः सिंहः पुरुषोत्तमश्च । नन्वङ्गुलीभिरिवेत्युपमा सरोजलोचनमित्यत्रोपमासाधिकेत्युक्तं प्राक् , तद्वदिहापि शरदीवेत्युपमोपमासाधिका भवत्वित्याशङ्कयाह - न हीति । तत्र बाधकाभावादुपमायाः साधकत्वाङ्गीकरणम् , इह तु प्रबलस्य सामान्यप्रयोगात्मनो बाधकस्य सद्भावात् तदनाश्रयणमिति भावः । यदि चोपक्रान्तोपमानिर्वाहे कश्चिदर्थलाभः विपर्यये वा दृष्टरूपोऽदृष्टरूपो वा प्रत्यवायः न्यायविरोधो वा, तदानीमाश्रयणीयैवोपमा । न चैतत् सर्वमिति प्रौढवादेन सोल्लुण्ठमाह --न ह्यौपस्येनेत्यादिना । किञ्च, उपमापरित्यागेन रूप
१. 'म्भ' क. ख. पाठः. २. 'पतिपा', ३. 'तु', ४. 'हि चारेण पञ्चाशसिद्धिः ।' ग. पाठः.. ५. 'कः', ६. 'दिशः ख. ग. पाठः.