________________
सिकर
२२२
अलङ्कारसूत्रं समुत्कण्ठत इति विरुद्धोत्पत्तिमुखेनोक्ता । अत एव द्वयोरस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति सन्देहसङ्करोऽयम् । यथा - “यद्वक्त्रचन्द्रे नवयौवनेन श्मश्रुच्छलेनोल्लिखितश्चकास्ति।
उद्दोमरामादृढंमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ।” अत्र वकं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूपकमिति संशयः । समासस्योभयथापि भावात् । 'उपमितं व्याघ्रादिभिः -' (२. १. ५६) इति घुपमासमासैः, व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंसकादित्वाद् रूपकसमासैः, मयूरव्यंसकादीनामाकृतिगणत्वात् । नात्र कचित् साधकबाधकप्रमाणसद्भाव इति सन्देहसङ्करः । यत्र तु कस्यचित् परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकत्वं प्रातिकूल्यं बाधकत्वम् । तत्र साधकत्वं यथा
“प्रसरहिन्दुनादाय शुद्धामृतमयात्मने । . नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे॥”
अत्र शङ्कर एव क्षीरसिन्धुरिति रूपकस्य साधकं शुद्धामृतमयात्मकत्वम् । तस्य शङ्करापेक्षया क्षीरसिन्धावनुकूलवार्थस्येहावसरप्राप्तत्वात् पुनर्वचॅनम् । आकृतिगणत्वादित्यनेन उभयत्रा प्यादिशब्दस्य प्रकारवाचित्वादपठितत्वेन समासाभावो नाशङ्कनीय इ. त्याह-नात्रेति । पादाम्बुजमित्यत्र मञ्जीरशिञ्जितयोगवत् श्मश्रुसम्बन्ध उपमासाधक इति नाशङ्कनीयम् । तदपढ्नुत्यार्थान्तरस्य विधानात् ।
१. 'वा', २. 'नद्धरा', ३. 'सः, म', ४. 'सः, व्याघ्रम' क. ख. पाठः. ५. 'न चात्र' ग. पाठः, ६. 'णमस्ति, त' क. ख. पाठः. ७. 'त्र' ग. पाठः.