________________
'निरूपणम् ]
सष्याख्यालङ्कारसर्वस्वोपेतम् ।
पेक्षित्वेनाङ्गाङ्गिभावेसकर इति । एतत् तु न सम्यगावर्जकम् । शब्दालङ्कारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालङ्कारसंसृष्टिस्त्वत्र श्रेयसी । यथोदाहृतं प्राक् । यहा, अत्र शब्दालङ्कारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः सङ्करो ज्ञेयः । एवमेकैः प्रकारश्चचितः । द्वितीयप्रकारस्तु सन्देहसङ्कराख्यः, यत्रो भयोरेकतरस्य साधकं प्रमाणं नास्ति बाधकं व, तत्र न्यायप्राप्तः संशय इति सन्देहसङ्कराख्यालङ्कारः । यथा - "यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
उत्क
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तंत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥” अत्र विभावनाविशेषोक्त्योः सङ्करः । तथाहि ण्ठाकारणाभावेऽप्युत्कण्ठाया उत्पत्तौ विभावना | संच कारणाभावो यः कौमारहर इत्यादिना कारणविरुद्धमुखेन प्रतिपादितैः । तथा यः कौमारहर इत्यादावनुत्कण्ठाकारणसद्भावेऽप्यनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः खड्गाथाकृतिहेतुत्वस्य दुष्करवैचित्र्योपलक्षणपरत्वाच्चित्रेऽन्तर्भावः । शदवदिति । यथा शब्दावर्थं प्रति गुणीभूतत्वादन्योन्यमुपकार्योपकारकभावं नानुभवतस्तद्वदित्यर्थः । प्रागिति । कुसुमसौरभेत्यादौ । एकः प्रकारः अङ्गाङ्गिभावलक्षणः । यः कौमारेत्यादि । विशेषोक्तौ प्रसङ्गोक्तस्यै -
1
-
२२१
१. 'वः स' ग. पाठ: २. पूर्वम् । य ३. 'यस' क. ख. पाठः ४. 'क' मूलपाठः, ५. 'त्रान्यतरपरिग्रहे सा', ६. 'वा प्रमाणं न विद्यते त', ँ, 'चौर्यसु', ८. 'परिवृते चे', ९. 'सन्देहः । त' क. ख. पाठः. १०. ग. पाठः ११. 'तः । कौ' क. ख. पाठः . नसौ' क. पाठः •
' तथा का' १३. 'वद
१२. 'धनु' ग. पाठः.