________________
२२०
अलङ्कारसूत्रं
[सङ्कर
I
श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावसङ्करः, उत्प्रेक्षाया वा निमित्त गतातिशयोक्त्या सहङ्गाङ्गिसङ्करः । ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद् बाधकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति । यतो न ब्रूमो विरोधमन्तरेणपि श्लेषो न भवतीति । किं तर्ह्यलङ्कारान्तरविविक्तो न श्लेषस्य विषयोऽस्तीति निरवकाशत्वात् तेषां बाधैः । तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद् दोषैः अत एवमर्थालङ्कारसङ्कर उदाहृतः । शब्दालङ्कारसङ्करस्तु कैचिदुदाहृतो यथा -
"राजति तटीयमभिहतदानवससातिपातिसारावनदा । गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥" अत्र यमकानुलोमप्रतिलोमयोः शब्दालङ्कारयोः परस्परात्प्रेक्षाया उत्थानेऽङ्गत्वं तस्याश्च तेषां चमत्कारकारित्वेऽङ्गत्वं ज्ञेयम् । श्लेषोत्प्रे क्षयोरिवोत्प्रेक्षाविषयभूतकारणगतयोर्विरोधश्लेषयोरुत्प्रेक्षानिमित्तकार्यगतयोः श्लेषातिशयोक्त्योर्वा सङ्करो नाशङ्कनीय इत्याह--न च विरोधेत्यादिना । उत्प्रेक्षाया वेत्यादि । अत्रापि श्लेषस्येत्यस्यानुषङ्गः । ताभ्यामिति एकत्वेऽपि श्लेषस्य विषयभेदेन भेदाद् द्विवचनान्तेन तच्छब्देन परामर्शः । तयोर्विरोधातिशयोक्त्योः । अतश्चेर्त्यादि । अलङ्कारान्तरोत्थापकत्वेन तद्विविक्तविषयत्वाभावात् । कैश्चित् काव्यप्रकाशकारादिभिः । राजति दि । इयं अभिहतैर्दानवानां रासं शब्दम् अतिपतितुं शीलवद्भिः सारावैर्नदैर्युक्ता अविरतेन दानेन मदेन वरा श्रेष्ठा सारा उत्कृष्टा वनदा वनखण्डनी सा गजता च यूथमतिपाति अतिशयेन रक्षति । अत्रेत्यादि । यद्यपि शब्दालङ्कारमध्ये अनुलोमप्रतिलोमं न लक्षितं, तथापि
/
३.
१. 'वः स' ग, 'वेन स' क पाठः. २. 'हायं स क. ख. पाठः. 'ण ले' ग. पाठः. ४. 'धकः । त', ५ ' षः । ए' क. ख. पाठः, ६. 'ति । अ'
ख. ग. पाठः.