________________
____२१९
निरूपणम्
सव्याख्यालङ्कारसर्वस्वोपेतम् । अनुग्राहिकाः । तद्बलेन तस्याः समुत्थानात् । सापि समुस्थापिता समुत्थापकानां चमत्कारकारितानिबन्धनमित्यङ्गाङ्गिभावः । यथा वा"त्रयीमयोऽपि प्रथितो जगत्सु
यद् वारुणीं प्रत्यगमद् विवस्वान् । मन्येऽस्तशैलात् पतितोऽत .
__ एव विवेश शुबै बडवाग्निमध्यम् ॥" अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलङ्कारौ । तदनुगृहीतो च द्वितीयेऽधै मन्येपदप्रकाशिता द्वितय्युत्प्रेक्षा । अतश्चोत्राङ्गाङ्गिभावः । तथाहि-अत्र यत् कारणमुत्प्रेक्ष्यते, तत्र विरोधश्लेषानुप्रवेशः, यच्चात्र कार्यमुत्प्रेक्षानिमित्तं, तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्यान्यथास्थितावप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ झयौ । तेनात्राङ्गाङ्गिभावेसङ्करः । न च विरोधप्रतिमोत्पत्तिहेतौ तद्बलेन उपमातिशयोक्तिबलेन । सापीत्यादिना नियमेन कस्यचिदङ्गत्वे कस्यचिदङ्गित्वे चाङ्गिनैवालङ्कारव्यपदेशः स्यात् , न तु सङ्कर इत्युभयोरपि परस्परं प्रत्यङ्गभावश्चाङ्गिभावश्चेतरेतराश्रयपरिहाराय विषयभेदेनीवगन्तव्य इ. त्याह । तत्रोत्प्रेक्षायाः प्रत्युत्थानेऽङ्गमुपमादिः । उपमादेश्चमत्कारकारित्वे उत्प्रेक्षाङ्गम् । श्लेषलक्षणावसरे तद्बलाबलनिरूपणायोक्तमेवार्थमिदानी सङ्करप्रदर्शनाय संक्षिप्याह-त्रयीमयोऽपीत्यादि । एतच्च तत्रैव वितत्य व्याख्यातम् । द्वितीति । हेतुफलोत्प्रेक्षाभेदात् । अतश्च अनुगृहीतत्वादेव । तथाह्यत्रेत्यादिनोत्प्रेक्षायाः श्लेषेण श्लेषविरोधाभ्यां वाङ्गाङ्गिभावं प्रतिपाद्य तस्या एवातिशयोक्त्युत्थापकेन श्लेषेण सह तं प्रतिपादयति- यच्चात्रेत्यादिना । अङ्गाङ्गिभावसङ्कर इति । पूर्ववद् विरोधश्लेषयोः श्लेषातिशयोक्त्योश्चो
१. 'के', २. ‘ता द्वि', ३. 'श्वाङ्गा' ग. पाठः. ४. 'भ्यामभे' क. ख. पाठः, ५. 'वः स' ग. पाठः. ६. 'न वाव' ख. ग. पाठः.