________________
अलङ्कारसूत्रं
[सङ्कर
मित्व इत्येव । तत्रोत्कटभेदमनुत्कटभेदं च मिश्रत्वम् । तत्रोत्कटभेदा संसृष्टिरुक्ता । अनुत्कटभेदः सङ्करः । तेच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन एकवाचकानुप्रवेशेन च त्रिधाभवत् सङ्करं त्रिभेदमुत्थापयति । क्रमेणोदाहरणम् I “अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ " अत्राङ्गुलीभिरिवेत्युपमा । सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका । रजनीमुखामति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्ययोर्मुखयोरभेदाध्यवसायात् । अत एव च तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमासोक्ते उपमे श्लेषा - नुगृहीता चातिशयोक्तिरुत्प्रेक्षायाश्चुम्बतीवेति प्रकाशिताया
४
२१८
-
1
मिश्रत्व इत्येवेति । उपलक्षणमेतद् एषामित्यस्य चानुवृत्तेः । अङ्गुलीभिरिवेत्युपमेति । सन्निग्रहणमात्रस्य साधारणधर्मत्वे ऐकरूप्येण निर्देशः । तत्कर्मीभूतयोस्तु केशसञ्चयतिमिरयोर्विम्बप्रतिबिम्बभावः । सैवेति । अङ्गुलीभिरिवेत्युपमैव । अत्र मुख्यतयावगम्यमाना हि मरीचयः सरोजमुकुलीकार एवानुकूल्यं भजन्ते इति लोचनमिव सरोजमित्युपमावसायः । तयोरङ्गाङ्गिभाव इति । अतिशयोक्त्यपेक्षितस्याभेदाध्यव सायनिमित्तस्य साम्यस्य शब्दद्वारेण सम्पादनाच्छलेषस्यानुग्राहकत्वम् । वाक्येत्यादि । 'इवेन विभक्त्यलोपः – ' ( वा० २. २. १८) इत्यादि - वचनमनपेक्ष्यैवं तदुक्तम् । अन्यथा सरोजलोचनमितिवदङ्गुलीभिरिवेत्युपमाया अपि समासोक्तत्वमेव स्यात् । श्लेषानुगृहीतेति । रजनीमुखमित्यत्र दर्शिता । उत्प्रेक्षाया इत्यादि । गम्यमानसंसर्गक्रियानिमित्ताया अभिधीयमानसरोजमुकुलीकारादिनिमित्ताया वा क्रियास्वरूपोत्प्रेक्षायाः |
-
१. 'श्रितत्व', २. ‘ततश्च मि', ३. 'ण यथा - अ', ४. 'योर', ५. 'वं वा' क. ख. पाठः. ६. 'लोम्यं भ', 'वै' ख. पाठः.
७.