SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । . २१७ अत्रोपमानुप्रासयोः संसृष्टिः । पादाम्बुजमित्यत्र छुपमायां मजीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः पारिशेष्यादुपमा प्रसाधेयति । तदेषा त्रिविधा संसृष्टिनिर्णीता ॥ . .. अधुना क्षीरनीरन्यायाश्रयेण तु सङ्करलक्षणमुच्यते--- क्षीरनीरन्यायेन तु सङ्करः ॥ ८५॥ शब्दार्थालङ्कारसंसृष्टिः । उपमानुप्रासयोरिति । पादाम्बुजमित्यत्र लुप्तधर्मद्योतकसमानधर्मायाः समासोपमायाः, मञ्जुमञ्जीरेत्यत्रैक| समुदायसादृश्यलक्षणस्य वृत्त्यनुप्रासस्योत्कटतया प्रतिभासात् । पाद एवाम्बुजम् अम्बुजमिव पाद इति सन्देहसङ्करो नाशङ्कनीय इत्याह-पादाम्बुजमित्यत्र हीति । उभयसंसृष्टिवत् पूर्वमुभयगतत्वेनेत्येतावतैव शब्दार्थालङ्कारगतत्वेनेत्यस्य सिद्धावप्युभयालङ्कारगतत्वेनेति वचनमुभयालङ्कारत्वेन वक्ष्यमाणानां लाटानुप्रासादीनामपि संसृष्टिर्भवतीति ज्ञापनार्थम् । सा यथा द्विषन्मृगमृगाधिपं भुवनजाड्यवैश्वानर__ प्रतापमुपवर्णयेद् यदुपतिं कथं मादृशः । तिरस्कृतपुलोमजिद्गुरुधिया धियाभ्यर्हितं परापदपरापदस्फुटसरोजकान्तेक्षणम् ॥ अत्र द्विषन्मृगमृगेति लाटानुप्रासस्याश्लिष्टपरम्परितेन सहैकवाचकानुप्रविष्टस्य धिया धियेति सजातीयेन भुवनजाड्यवैश्वानरप्रतापमिति श्लिष्टपरम्परितेन पराप(दमि ? दि)त्यादौ परसम्बन्ध्यापल्लक्षणेन तदपलापप्रदत्वात्मना चार्थेन परापच्छब्दस्य चापराप(च्छ ? दश)ब्दस्य चैवान्वयाद् यमकयोस्तु द्वयोरपि परापदशब्दयोरानर्थक्यादुभयानर्थक्यविशिष्टयमकलुप्त(धर्म ?)द्योतकसमासोपमालक्षणशब्दार्थालङ्कारवृत्तिना संसृष्टयलङ्कारेण (वा?) विजातीयेन च संसृष्टिः ॥ १. 'या', २. 'द', ३. 'त्रिधा' क. ख. पाठः. ४. 'स्थ' ख. ग. पाटः, ५. 'g' क. पाठः. DD
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy