________________
अलङ्कारसूत्रं
[ संसृष्टि
अत्रानुप्रासयम कयोर्विजातीययोः संसृष्टिः । अत्रैव लकलोलकलो कलोलकलोल इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालङ्कारसंसृष्टिर्यथा
" देवि ! क्षपा गलति चक्षुरमन्दतारमुन्मीलयाशु नलिनीव सभृङ्गमब्जम् । एष त्वदाननरुचेव विलुण्ट्यमानः
२१६
―
पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥ "
अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः ।
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥" अत्रोत्प्रेक्षयोः सजातीययोरुत्प्रेक्षोपमयोर्विजातीययोश्च संसृष्टिः । उभयसंसृष्टिर्यथा -
"आनन्दमन्थरपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः || ”
।
व्यवहरति, क्षीरनीरवदस्फुटभेदान् सङ्कीर्णा इति । अनुप्रासयमकयोरिति । कुसुमसौरभेत्यादौ छेकानुप्रासस्य विद्यमानत्वात् । सजातीययोरिति । यमकत्वेन निरर्थकत्वेन च । उपमोत्प्रेक्षयोरिति । पूर्वार्धे - पाण्ड्योऽयमित्यादिवद् बिम्बप्रतिबिम्बभावोपलक्षित साधारणधर्मवत्युपमा । उत्तरार्धेऽम्बरत्यागनिमित्ता क्रियाहेतूत्प्रेक्षा । सजातीययोरिति । पूर्वार्धेऽनुपात्तनिमित्तयोः क्रियास्वरूपोत्प्रेक्षयोः, उत्तरार्धे ऐकरूप्यनिर्दिष्टसाधारणधर्माया उपमाया विद्यमानत्वात् ! पूर्वनिर्दिष्टयोरुत्प्रेक्षयोर्द्वित्वेऽपि जातिपरत्वेनैकत्वस्य विवक्षणादुपमोत्प्रेक्षयोरिति द्विवचनम् । उभयसंसृष्टिः