________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२१५
तत्र यथा बा
उक्तालङ्काराणां यथासम्भवं यदि कचिद् युगपत् संघटना स्यात्, तदा ते किं पृथक्त्व एव पर्यवसिताः, उत तदलङ्कारान्तरमेव किञ्चिदिति विचार्यते ह्यालङ्काराणां सौवर्णमणिमयप्रभृतीनां पृथक् चारुताहेतुत्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते, तद्वत् प्रकृतालङ्काराणामपि संयोजने चारुत्वान्तरमुपलभ्यते । तेनालङ्कारान्तरप्रादुर्भावो न पृथक् पर्यवसानमिति निर्णयः । अलङ्कारान्तरत्वे च संयोगन्यायेन स्फुटावगमो भेदः, समवायन्यायेन वोस्फुटावगम इति द्वैधम् । पूर्वत्र संसृष्टिरुत्तरत्रं तु सङ्करः । अत एव तिलतण्डुलन्यायः क्षीरनीरन्यायश्च तयोर्यथार्थतामेव गमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिविधा, शब्दालङ्कारगतत्वेनार्थालङ्कारगतत्वेनोभयालङ्कारगतत्वेन च । सङ्करस्तु प्रभेदयुक्तो वक्ष्यते । तत्र शब्दालङ्कारसंसृष्टिर्यथा -
“कुसुमसौरभ लोभपरिभ्रममरसंभ्रमसंभृतशोभया ।
-
वनितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥”
पत् सङ्घटितानामुक्तालङ्काराणां प्रत्यवमर्शः, उतं तदित्यत्र तच्छब्देन प्रतिनिर्दिश्यमानालङ्कारान्तरलिङ्गभाजा युगपत् सङ्घटना परामृश्यते । प्रकृतालङ्काराणां पुनरुक्तवदाभासादीनां काव्यालङ्काराणाम् । यथार्थ (ते ? तामि)ति । लोको हि तिलतण्डुलवत् संश्लेषेऽपि स्फुटभेदानर्थान् संसृष्टा इति
१. 'चा', २. 'त्र स', ३. 'मवगमयति । त', ४. 'त्रिधा' क. ख. पाटः, ५. 'तिलतण्डुलेति ।' ख. पाट:.